नियतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियतः, त्रि, (नि + यम + क्तः ।) संयतः । यथा, “कार्त्तिके शुक्लपक्षस्य द्वितीयायां नराधिप ! । पुष्पाहारो वर्षमेकं तत्रैव नियतात्मवान् ॥” इति भविष्यपुराणे द्बितीयकल्पः ॥ (सेवापरः । यथा, रामायणे । १ । २ । ७ । “प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ॥”) नित्यः । यथा, -- “अन्यथासिद्धिशून्यस्य नियता पूर्ब्बवर्त्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्त्तितम् ॥” इति भाषापरिच्छेदे । १६ ॥ (यथा च कश्चित् । “चन्द्रे लक्ष्मीः प्रभा सूर्य्ये गतिर्वायौ भुवि क्षमा । एतत्तु नियतं सर्व्वं त्वयि चानुत्तमं यशः ॥” निपूर्ब्बयमधातोर्बद्धार्थकत्वात् बद्धोऽपि । यथा, नियताञ्जलिः ॥ संयुक्तः । वासक्तः । यथा, महाभारते । १ । १३४ । ५९ । “प्रतिज्ञामात्मनो रक्षन् सत्ये च नियतः सदा ॥”)
