नियम

विकिशब्दकोशः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमः, पुं, (नियमनमिति । नि + यम + “यमः समुपनिविषु च ।” ३ । ३ । ६३ । इति अप् ।) शौचं सन्तोषः तपः स्वाध्यायः ईश्वरप्रणिधानञ्च । इति वेदान्तसारः ॥ प्रतिज्ञा । अङ्गीकार इति यावत् । व्रतम् । तच्चोपवासादि । अनित्यमागन्तु- साधनं कर्म्म । इत्यमरः । २ । ७ । ३८ ॥ (सङ्कल्पः । यथा, देवीभागवते । ३ । २६ । २५ । “नियमं प्रथमं कृत्वा पश्चात् पूजां समाचरेत् ॥” बन्धनम् । यथा, मनुः । ८ । १२२ । “धर्म्मस्याव्यभिचारार्थमधर्म्मनियमाय च ॥”) मन्त्रणा । निश्चयः । इति मेदिनी । मे, ४६ ॥ * ॥ “नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्बिधा । शौचं तुष्टिश्च सन्तोषस्तपश्चेन्द्रियनिग्रहः ॥ स्नानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहः । तपः क्रोधो गुरौ भक्तिः शौचञ्च नियमाः स्मृताः ॥ यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् । सन्तोषस्तपसां जप्यं वासुदेवार्च्चनं दमः ॥” इति गरुडपुराणम् ॥ “ब्रह्मचर्य्यमहिंसाञ्च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वं मनो नयन् ॥ स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्व्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः । एते यमाः सनियमाः पञ्च पञ्च प्रकीर्त्तिताः ॥” इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ * ॥ “तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणञ्चैव ह्नीर्म्मतिश्च जपो हुतम् । दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः ॥” इति तन्त्रसारे (हठयोगप्रदीपिकायाञ्च । १ । १७ ॥ कवितानियमाः । यथा, -- “वर्णयेन्न सदप्येतन्नियमोऽथ प्रदर्श्यते । भूर्ज्जत्वग्घिमवत्येव मलये ह्येव चन्दनम् ॥ सामान्यवर्णने शौल्क्यं छत्राम्भःपुष्पवाससाम् । कृष्णत्वं केशकाकाहिपयोनिधिपयोमुचाम् ॥ रक्तत्वं रत्नबन्धूकविद्याम्भोजविषस्वताम् । तथा वसन्त एवान्यपुष्टानां कलकूजितम् ॥ वर्षास्वेव मयूराणां रुतं नृत्यञ्च वर्णयेत् । नियमस्य विशेषोऽथ पुनः कश्चित् प्रकाश्यते ॥ कमलासम्पदोः कृष्णहरितोर्नागसर्पयोः । पीतलोहितयोः स्वर्णपरागाग्निशिखाद्रिषु ॥ चन्द्रेशशैलयोः कामध्वजे मकरमत्स्ययोः । दानवासुरदत्यानामैक्यमेवाभिसम्मतम् ॥ बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता । भानवा मौलितो वर्ण्या देवाश्चरणतः पुनः ॥” इति कविकल्पलतायाम् १ स्तवके वर्ण्यस्थिति- र्नाम तृतीयं कुसुमम् ॥ (विष्णुः । यथा, महा- भारते । १३ । १४९ । ३० । “अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥” महादेवः । यथा, तत्रैव तस्य सहस्रनाम- कीर्त्तने । १३ । १७ । ३५ । “पवित्रश्च महांश्चैव नियमो नियमाश्रितः ॥”)

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियम पुं।

अङ्गीकारः

समानार्थक:संविद्,आगू,प्रतिज्ञान,नियम,आश्रव,संश्रव,अङ्गीकार,अभ्युपगम,प्रतिश्रव,समाधि,अभ्युपपत्ति,अनुग्रह

1।5।5।1।4

संविदागूः प्रतिज्ञानं नियमाश्रयसंश्रयाः। अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

नियम पुं।

व्रतम्

समानार्थक:नियम,व्रत

2।7।37।2।1

पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः। नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्.।

 : उपवासः

पदार्थ-विभागः : , क्रिया

नियम पुं।

नियमकर्मः

समानार्थक:नियम

2।7।49।1।1

नियमस्तु स तत्कर्म नित्यमागन्तुसाधनम्. क्षौरम्तु भद्राकरणं मुण्डनं वपनं त्रिषु। उपवीतं ब्रह्मसूत्रं प्रोद्धृते दक्षिणे करे॥

पदार्थ-विभागः : , क्रिया

नियम पुं।

परिवर्तनम्

समानार्थक:परिदान,परीवर्त,नैमेय,नियम

2।9।80।2।4

नीवी परिपणो मूलधनं लाभोऽधिकं फलम्. परिदानं परीवर्तो नैमेयनियमावपि॥

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियम¦ पु॰ नि + यम--घञ् वा ह्रखः।

१ प्रतिज्ञायाम् अङ्गीकारेअमरः।

२ नित्ये

३ आगन्तुकसाधनकर्मरूपे व्रते

४ निय-न्त्रणायां

५ निश्चये मेदि॰ पा॰ सू॰ उक्ते

६ योगाङ्गभेदे
“यमनियमासनपाणायामप्रत्याहारधारणाध्यानसमाध-योऽष्टावङ्गानि” सूत्रे उद्दिश्य
“शौचसन्तोषतपःस्वाध्या-येश्वरप्राणिधानानि नियमाः” सू॰ विभज्योक्तं
“तत्रशौचं मृज्जलादिजनितं मेध्याभ्यवहरणादि च बाह्य-माभ्यन्तरं चित्तमलानामाक्षालनम्। सन्तोषः सन्निहित-साधनादधिकस्यानुपादित्सा। तपो द्वन्द्वसहनं द्वन्द्वञ्च जिघ-त्सापिपासे शीतोष्णे स्थानासने काष्ठमौनाकारमौने चव्रतानि चैवं यथायोगं कृच्छ्रचान्द्रायणसान्तपनादीनि। खाध्यायो मोक्षशास्त्राणामध्ययनं प्रणवजपो वा ईश्व-रग्रणिधानं तस्मिन् परमगुरौ सर्वकर्मार्पणं
“शय्यास-नस्थोऽथ पथि व्रजन् वा स्वस्थः परिक्षीणवितर्कजालः। संसारवीजक्षयमीधमाणः स्यान्नित्यमुक्तोऽमृतभोगमागी” यत्रेदमुक्तं ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभाव-श्चेति” भा॰
“शौचादिनियमान् व्याचष्टे शौचमिति। आदिशब्देन गोमयादयो गृह्यन्ते। गोमूत्रयावकादिमेध्यं तस्याभ्यवहरणादि आदिशब्दात् ग्रासपरिमाण-सङ्ख्यानियमादयो ग्राह्या मेध्याभ्यवहरणादिजनितमितिबक्तव्ये मेध्याभ्यवहरणादि चेत्युक्तं कार्ये कारणत्वोप-चारात्। चित्तमलाः मदमानासूयादयस्तदपनयो मनः-शौचम् प्राणयात्रामात्रहेतोरभ्यधिकस्यानुपादित्सा स-न्तोषः प्रागेव स्वीकरणपरित्यागादिति विशेषः। काष्ठमौनमिङ्गितेनापि स्वाभिप्रायाप्रकाशनम् अवचनमा-कारमौनम्। परिक्षीणवितर्कजाल इति वितर्को वक्ष्यमाणःसंशयविपर्य्ययौ चेति एतावता शुद्धाभिसन्धिरुक्तः। एतेच यमनियमाः विष्णुपुराणे उक्ताः
“ब्रह्मचर्यमहिंसा{??}[Page4077-b+ 38] सत्यास्तेयापरिग्रहम्। सेवेत योगी निष्कामो योग्यतांस्वमनो नयन्। स्वाध्यायशौचसन्तोषं तपांसि नियता-त्मवान्। कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः। एते यमाः सनियमाः पञ्च पञ्च प्रकिर्त्तिताः। विशिष्टफलदाः काम्या निष्कामाश्च विमुक्तिदाः” विव॰। सर्वदर्शन-संग्रहे पातञ्जलदर्शनप्रसङ्गे स्वाध्यायशब्देन प्रणवजपवत्तान्त्रिकमन्त्रजपोऽप्युच्यते इत्युक्तम्। (
“नियमाः पञ्च सत्याद्या वाह्यमाभ्यन्तरं द्विधा। शौचं, तुष्टिश्च सन्तोषस्तपश्चेन्द्रियनिग्रहः। स्यानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहः। तपोऽक्रोधो गुरौभक्तिः शौचञ्च नियमाः स्मृताः। यमाः पञ्चाथ नि-यमाः शौचं द्विविधमीरितम्। सन्तोषस्तपसां{??}ंवासुदेवार्चनं दमः” गारुडपु॰
“तपः सन्तोष आस्तिक्यंदानं देवस्य पूजनम्। सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्चजपो हुतम्। दशैते नियमाः प्रोक्ता योगशास्त्रविशा-रदैः” तन्त्रसारः।

७ विधिभेदे तल्लक्षणादि लौगाक्षि-भास्करेणोक्तं यथा
“विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति। तत्र चा-न्यत्र च प्राप्तौ परिसख्येति गीयते” अस्यार्थः। प्रमाणा-न्सरेणाप्राप्तस्य प्रापकोविधिरपूर्वविधिः। यजेत स्वर्ग-काम इत्यादि स्वर्गार्थकयागस्य प्रमाणान्तरेणाप्राप्तस्या-नेन विधानात्। पक्षे अप्राप्तस्य प्रापकोविधिर्नियमविधिःयथा व्रीहीनवहन्तीत्यादिः। कथमस्य पक्षेऽप्राप्तेः प्राप-कत्वमिति चेत् इत्यम् अनेन हि अवधातस्य वैतुष्या-र्थत्वं न प्रतिपाद्यते अन्वयव्यतिरेकसिद्धात् किन्तुनियमः स चाप्राप्तांशपूरणं वैतुष्यस्य हि नानोपायसाध्यत्वादवघातं परित्यज्योपायान्तरं यदा ग्रहीतु-मारभ्यते तदावघातस्याप्राप्तत्वेन तद्विघाननामकमप्राप्तांपूरणमेवानेन विधिना क्रियते। अतश्च नियमविघाव-प्राप्तांशपूरणात्मको नियम एव वाक्यार्थः पक्षेऽप्राप्तावघातविधानमिति यावत्”। मिताक्षरोक्तं विशेषोदाहरणादि-मृतुकालशब्दे

१४

३७ पृ॰ दर्शितं तत्र दृश्यम्। नियमेच इतरसंवलने न दोषः। परिसंख्यायां दोष इतिभेदः। पाक्षिके सतीत्यादिकारिकां व्याख्याय उदा-हरणं परिसंख्यातो भेदश्च विधिरूपग्रन्थे दर्शितो यथा
“नियमः पाक्षिके सतीति विधिं विना प्रवृत्तेः पाक्षिकत्वेसतीत्यर्थः प्रवृत्तिनियमे सतीति यावत तथाच तद्-नोचर{??}त्तिनियमनिवाहको विधिस्तन्नियमविधिरिति[Page4078-a+ 38] कलितम्। तादृशसावघातादिविधिः व्रीहीनवहन्तीतिवि{??} विना पुरोडाशनिष्यादकव्रीहिवैतुष्यद्वारा यागो-पकारकेऽवधाते इतरपरीहारेण नखदलनादावपिप्रवृत्तिप्रसक्त्याऽवधाते प्रवृत्तिनियमो न स्यादिति तादशेविषेः{??}त्तिनियमनिर्वाहकत्वं यागोपकारके व्रीहिवैतुष्येऽवचाताधीनत्वनियमस्तादृशविधितो यद्यपि दुर्लभःनियमस्यापदार्धत्वादवाक्यार्थत्वाच्च तथापि तादृशवि-धितो ब्रीह्यबधातत्वेन नियोगसाधनताऽवगमात् याग-{??}परमापूर्वस्य तदवधातरूपकारणं विनापि निष्प-त्तिप्रतिलन्धानेन तत्र नियतप्रवृत्तिनिर्वाहः। तत्र चा-न्यत्र चेति यत्रोद्देश्ये यस्य विधानं तदन्यस्मिन्नपितत्सम्बन्धस्य तस्मिन वा तदन्यसस्वन्धस्य प्रवृत्तितःप्रलक्तावित्यर्थः। तादृशश्च प्रसञ्चकप्रवृत्तिविरोधिविधिःपरिसंख्याविधिरित्यर्थः तत्र
“इमाममृभ्रन् रशनामृ-तस्येत्यश्वामिधानीमादत्ते” इति। तत्रेमामित्यादिमन्त्रस्यरशनातात्रग्रहणप्रकाशकतया अश्वरशनादान इव गर्द-भरशनाया आदानेऽपि मन्त्रस्य विनियोगो लिङ्गात्लभ्यते तथाच तदादानकालेऽपि{??}न्त्रपाठप्रवृत्यातत्रापि तन्मन्त्रसम्बन्धः स्यात् एतस्माच्च विधितः प्रथम-मश्वरशनाग्रहणे एतन्मन्त्रविनियोगलाभे निराकाङ्क्षतयागर्दमरशनाग्रहणे न तद्विगियोगलामैति वैयर्थ्ये नतदाचरणमिति एतद्विधेर्विधेयस्येतरोद्देश्यसम्बन्धप्रस-ञ्जकप्रवृत्तिविरोधिता। अथ व्रीहीनव हन्तीति नियम-बिधिदर्शितपरिसंख्याविध्योः को विशेषः नियमविधेरपिषरिसंख्यावदितरनिवृत्तिफलकत्वात् नियमविध्यसत्त्वेपुरीडाशद्वारा यागोपकारकवैतुष्याद्यर्थिनोऽवथातेतरतदु-पावे प्रवृत्तिप्रसक्तेः। यदि चावधातनियमविधेरवधात-प्रवृत्तिनियमफलकत्वं परिसंख्यातो विशेषः इमाम-गृभ्रन् रशनामित्यादि परिसंख्याया अश्वरशनादानेमन्त्रपाठप्रवृत्तिनियमस्य मन्त्रलिङ्गेन मन्त्रस्यासाधा-रण्येनोपकारकताबोधनादेव निर्वाहात्तस्याः प्रवृत्ति-नियमानुपपादकत्वादिति विभाव्यते तदा अस्तु परि-संख्याया नियमानन्तर्भावः नियमस्तु परिसंख्यायामन्त-र्{??}वतु परिसंख्याफलस्य तत्साधारण्यात् इति चेन्ननियमस्थले इतरनिवृत्तेरर्थतः सम्भवेऽपि तत्र तत्तात्-पर्य्यानुपगमात् नियतप्रवृत्तावेव तत्तात्प्रर्य्यात् न चो-पायान्तरनिवृत्तावपि नियमतोऽवघातप्रवृत्त्युपपत्तेर्नि-वृतावेव तत्तात्पर्य्यं न तु नियतप्रवृत्तावित्येव किं[Page4078-b+ 38] गोपयेत इति वाच्यम् अवघातविधिनाऽवघातस्यासाधा-रण्येन यागोपकारकत्ववोधनेऽपि अवघातमात्रे{??}वैतुष्यनिर्वाहाप्रतिसन्धाने अन्योपायसंवलनेनाप्यवधा-तप्रवृत्तिसम्भवादवघातविधेरितरनिवर्त्तकत्वायोगेन तले-तरनिवृत्तो तात्पर्य्यासम्भवात्। एवम् ऋतौ भार्य्या-मुपेयादित्यादिनियमी न तु परिसंख्या दोषत्रयग्रासा-दिति सर्वसिद्धान्तोऽपि व्याहन्येत स्रार्थमन्तरेणैवानिष्टा-ननुवन्धिभार्य्यागमने ऋतुकालव्याप्तिबोधात् तदैकवाक्य-तया परिसंख्याफलस्येतरकाले भार्य्यागमननिवृत्ति-मिर्वाहान्नियमानावश्यकत्वात्। न च ऋत्वनभिगमनेप्रत्यमवायश्रुतेः ऋतुकालाभिगमस्यावश्यकत्वे तत्तात्-षर्व्यमावश्यकमिति नियम इति वाच्यम्। अनृतावन-भिगमस्यापि
“इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः” इत्यादिना निषेधात्तदेकवाक्यतया परिसंख्याया एवौ-चित्यात् इति चेन्न येन रूपेण उद्देश्यता तदन्यरूप-ध्यापकता उद्देश्यविधेयभावमर्य्यादातो न लभ्यते इतिपञ्च पञ्चनखान् भुञ्जीत इत्यादावुद्देश्याविशेषेण भक्ष्य-पञ्चनखत्वादौ शशकाद्यभेदव्याप्त्यलाभ इत्याशयेन तत्रषरिसंख्यायां खार्थहान्थादिदोषत्रयस्य प्राचीनैरभिधा-नात्”। मीमांसापरिभाषायाञ्च
“यो विधिः पक्षे प्राप्त-मर्षं नियमयति स नियमविधिः यथा व्रीहीनवह-न्तीति। एतद्विध्यभावे दर्शपूर्णमासिकेषु व्रीहिषूत्पत्तिवाक्यावनतपुरोडाशोपयोगि तण्डुलनिष्पत्त्यनु{??} वैतु-ष्यकार्य्यायावहनमवत् कदाचिन्नस्वविदलनमपि प्राप्नुया-दिति तस्मिन् पक्षेऽवहनमस्य प्राप्त्यभावात् का{??}ग्यजो-वपत्तेरवहननस्व पाक्षिकी प्राप्तिः स्यात् सत्यस्मिन् विधौ{??}वहननेमैव वैतुष्यं कार्यमिति नियमे सति विदसनंसर्वात्मना निवर्त्तत इति नियमविधिरयम्। न चवैतुष्यस्य नरूविदलनेनापि सम्भवादवहनगनियमो व्यर्थःप्रयोजनाभावादिति वाच्यम् अवथातेनैव वैतुष्यकरखेकिञ्चिददृष्टं जन्यते इत्यदृष्टाङ्गीकारात् नियमेनदृष्ट-कार्य्यालाभेऽप्यदृष्टस्योत्पत्तेः। तच्चापूर्वं यागोत्पत्त्यपूर्व-द्वारा फलापूर्वे उपयुज्यते तेन नियमापूर्वाभावे फलापूर्व-मेवनोत्पद्यत इति कल्पनान्नियमापूर्वस्य न वैयर्थ्यम्एव व्रीहिसोमादिनियमविधिषु बोध्यम्”। अधिकं विधिर-सावनग्रन्थे दृश्यम्। कवितावर्णननियममेदाः यथा
“वर्ण-येस्य मदप्येतन्नियमोऽथ प्रदर्श्यते। भूर्जत्वघिमवत्येवचलये ह्येव चन्दनम्। सामान्यवर्णने शौल्क्यं छत्राप्यः-[Page4079-a+ 38] पुष्पवाससाम्। कृष्णत्वं केशकाकाहिपयोनिधिपयोमुचाम्। रक्तत्वं रत्नवन्धूकविद्याम्भोजविवस्वताभ्। तथा वसन्त एवान्यपुष्टानां कलकूजितम्। वर्षास्वेव मयू-राणा रुतं नृत्यञ्च वर्णयेत्। नियमस्य विशेषोऽथ पुनःकश्चित् प्रकाश्यते। कमलासम्पदोः कृष्णहरितोर्ना-गसर्पयोः। पीतलोहितयोः स्वर्णपरागाग्निशिखादिषु। चन्द्रेशशैलयोः कामध्वजे मकरमत्स्ययोः। दान-वासुरदैत्यानामैक्यमेवाभिसम्मतम्। बहुकालजन्मनोऽपिशिवचन्द्रस्य बालता। मानवा मौलितो वर्ण्या देवाश्चर-णतः पुनः”। नियममयति नि + यम--णिच्--अच्।

८ सर्वनियामके परमेश्वरे
“अतीन्द्रः संग्रहः सर्गोधृतात्मा नियमोऽयमः” विष्णुस॰
“स्वेषु स्वेष्वधिकारेषु प्रजामियमयतीति नियमः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियम¦ m. (-मः)
1. Agreement, contract, engagement, assent, promise.
2. Any religious observance voluntarily practised, as fasting, watching, pilgrimage, praying, &c. voluntary penance, meritor- ious or supererogatory piety.
3. A religious observanace or obligation in general.
4. Certainty, ascertainment.
5. Rule, precept.
6. Usage, practice.
7. Common places in poetry, conventional expression, as notice of the Birch in describing the Hima4laya, of the Sandal tree in describing the Malaya mountain, the white- ness of vesture, blackness of hair, the cry of the peacock in the rains, of the kokila in spring, &c, E. नि before, यम् to refrain, affix घञ् वा ह्रस्वः |

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियमः [niyamḥ], 1 Restraining, checking.

Taming, subduing.

Confining, preventing.

A restraint, check; वाचि नियमः U.2.2; अधर्मानियमः Ms.8.122.

Restriction, limitation; Mb.14.13.11.

A rule or precept, law (in general), usage; नायमेकान्ततो नियमः Ś. B.

Regularity; कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम् Ratn. 1.2.

Certainty, ascertainment.

An agreement, promise, vow, engagement.

Necessity, obligation.

Any voluntary or self-imposed religious observance (dependent on external conditions); [The earliest explanation of this expression is the one found in the ŚB. on MS.4.2.24. cf. को$यं नियमः । अनियतस्य नियतता । प्रयोगाङ्गतया सर्वे देशाः प्राप्नुवन्ति, न तु समच्चयेन । यदा समो न तदा विषमः । यदा विषमो न तदा समः । स एष समः प्राप्तश्चाप्राप्तश्च । यदा न प्राप्तः स पक्षो विधिं प्रयोजयति. This is very nicely stated in the Vārttika'नियमः पाक्षिके सति']; R.1.94; Ki.5.4; (see Malli. on Śi.13.23).

Any minor observance or lesser vow, a duty prescribed to be done, but which is not so obligatory as a यम q. v. शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः । व्रतमौनोपवासं च स्नानं च नियमा दशा ॥ Atri.

Penance, devotion, religious austerities; नियमविघ्न- कारिणी Ś.1; R.15.74.

(In Mīm. phil.) A rule or precept which lays down or specifies something which, in the absence of that rule, would be optional; विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति.

(In Yoga phil.) Restraint of the mind, the second of the 8 principal steps of meditation in Yoga; दशैते नियमाः प्रोक्ता योगशास्त्र- विशारदैः Tantrasāra.

(In Rhet.) A poetical commonp lace or convention, as the description of the cuckoo in spring, peacocks in the rains &c.

Defining, definition.

Keeping down, lowering (as the voice).

Keeping secret; मन्त्रस्य नियमं कुर्याः Mb.5. 141.2.

Effort (यत्न); यथैते नियमं पौराः कुर्वन्त्यस्मिन्निवर्तने Mb.2.46.2. (नियमेन as a rule, invariably). -Comp. -उपमा a simile which expressly states that something can be compared only with something else. -धर्मः a law prescribing restraints. -निष्ठा rigid observance of prescribed rites. -पत्रम् a written agreement. -विधिः a religious rite, daily ritual; नियमविधिजलानां बर्हिषां चोप- नेत्री Ku.1.6. -स्थ a. observing penance; Ku.5.13.-स्थितिः f. steady observance of religious obligations, asceticism. -हेतुः a regulating cause.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियम/ नि- m. restraining , checking , holding back , preventing , controlling Mn. MBh. etc.

नियम/ नि- m. keeping down , lowering (as the voice) RPra1t.

नियम/ नि- m. limitation , restriction(609134 मेनind. with restrictions i.e. under certain conditions Car. )

नियम/ नि- m. reduction or restriction to (with loc. or प्रति) , determination , definition Gr2S3rS. Pra1t. MBh. Ra1jat.

नियम/ नि- m. any fixed rule or law , necessity , obligation(609136 मेनind. and 609136.1 मात्ind. as a rule , necessarily , invariably , surely) Var. R. Sus3r. etc.

नियम/ नि- m. agreement , contract , promise , vow R. Katha1s.

नियम/ नि- m. any act of voluntary penance or meritorious piety ( esp. a lesser vow or minor observance dependent on external conditions and not so obligatory as यमSee. ) TA1r. Mn. MBh. Ka1v. etc.

नियम/ नि- m. a partic. process applied to minerals ( esp. to quicksilver w.r. याम) Cat.

नियम/ नि- m. (in rhet. )a common-place , any conventional expression or usual comparison

नियम/ नि- m. (in मीमांसाphil. ) a rule or precept (laying down or specifying something otherwise optional)

नियम/ नि- m. restraint of the mind (the 2nd of the 8 steps of meditation in योग)

नियम/ नि- m. performing five positive duties MWB. 239

नियम/ नि- m. N. of विष्णुMBh.

नियम/ नि- m. Necessity or Law personified as a son of धर्मand धृतिPur.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of धृति. Br. II. 9. ५९. १०. ३४.
(II)--a god of आभूतरय group. Br. II. ३६. ५५.
(III)--a mukhya clan. वा. १००. १९.
(IV)--a Sukha God. Br. IV. 1. १९.

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियम पु.
बाध्यता का.श्रौ.सू. 16.1.2.

"https://sa.wiktionary.org/w/index.php?title=नियम&oldid=500662" इत्यस्माद् पुनः प्राप्तिः