नियमः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियमः, पुं, (नियमनमिति । नि + यम + “यमः समुपनिविषु च ।” ३ । ३ । ६३ । इति अप् ।) शौचं सन्तोषः तपः स्वाध्यायः ईश्वरप्रणिधानञ्च । इति वेदान्तसारः ॥ प्रतिज्ञा । अङ्गीकार इति यावत् । व्रतम् । तच्चोपवासादि । अनित्यमागन्तु- साधनं कर्म्म । इत्यमरः । २ । ७ । ३८ ॥ (सङ्कल्पः । यथा, देवीभागवते । ३ । २६ । २५ । “नियमं प्रथमं कृत्वा पश्चात् पूजां समाचरेत् ॥” बन्धनम् । यथा, मनुः । ८ । १२२ । “धर्म्मस्याव्यभिचारार्थमधर्म्मनियमाय च ॥”) मन्त्रणा । निश्चयः । इति मेदिनी । मे, ४६ ॥ * ॥ “नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्बिधा । शौचं तुष्टिश्च सन्तोषस्तपश्चेन्द्रियनिग्रहः ॥ स्नानमौनोपवासेज्यास्वाध्यायोपस्थनिग्रहः । तपः क्रोधो गुरौ भक्तिः शौचञ्च नियमाः स्मृताः ॥ यमाः पञ्चाथ नियमाः शौचं द्विविधमीरितम् । सन्तोषस्तपसां जप्यं वासुदेवार्च्चनं दमः ॥” इति गरुडपुराणम् ॥ “ब्रह्मचर्य्यमहिंसाञ्च सत्यास्तेयापरिग्रहान् । सेवेत योगी निष्कामो योग्यतां स्वं मनो नयन् ॥ स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् । कुर्व्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः । एते यमाः सनियमाः पञ्च पञ्च प्रकीर्त्तिताः ॥” इति विष्णुपुराणे ६ अंशे ७ अध्यायः ॥ * ॥ “तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणञ्चैव ह्नीर्म्मतिश्च जपो हुतम् । दशैते नियमाः प्रोक्ता योगशास्त्रविशारदैः ॥” इति तन्त्रसारे (हठयोगप्रदीपिकायाञ्च । १ । १७ ॥ कवितानियमाः । यथा, -- “वर्णयेन्न सदप्येतन्नियमोऽथ प्रदर्श्यते । भूर्ज्जत्वग्घिमवत्येव मलये ह्येव चन्दनम् ॥ सामान्यवर्णने शौल्क्यं छत्राम्भःपुष्पवाससाम् । कृष्णत्वं केशकाकाहिपयोनिधिपयोमुचाम् ॥ रक्तत्वं रत्नबन्धूकविद्याम्भोजविषस्वताम् । तथा वसन्त एवान्यपुष्टानां कलकूजितम् ॥ वर्षास्वेव मयूराणां रुतं नृत्यञ्च वर्णयेत् । नियमस्य विशेषोऽथ पुनः कश्चित् प्रकाश्यते ॥ कमलासम्पदोः कृष्णहरितोर्नागसर्पयोः । पीतलोहितयोः स्वर्णपरागाग्निशिखाद्रिषु ॥ चन्द्रेशशैलयोः कामध्वजे मकरमत्स्ययोः । दानवासुरदत्यानामैक्यमेवाभिसम्मतम् ॥ बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता । भानवा मौलितो वर्ण्या देवाश्चरणतः पुनः ॥” इति कविकल्पलतायाम् १ स्तवके वर्ण्यस्थिति- र्नाम तृतीयं कुसुमम् ॥ (विष्णुः । यथा, महा- भारते । १३ । १४९ । ३० । “अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥” महादेवः । यथा, तत्रैव तस्य सहस्रनाम- कीर्त्तने । १३ । १७ । ३५ । “पवित्रश्च महांश्चैव नियमो नियमाश्रितः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियमः [niyamḥ], 1 Restraining, checking.
Taming, subduing.
Confining, preventing.
A restraint, check; वाचि नियमः U.2.2; अधर्मानियमः Ms.8.122.
Restriction, limitation; Mb.14.13.11.
A rule or precept, law (in general), usage; नायमेकान्ततो नियमः Ś. B.
Regularity; कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम् Ratn. 1.2.
Certainty, ascertainment.
An agreement, promise, vow, engagement.
Necessity, obligation.
Any voluntary or self-imposed religious observance (dependent on external conditions); [The earliest explanation of this expression is the one found in the ŚB. on MS.4.2.24. cf. को$यं नियमः । अनियतस्य नियतता । प्रयोगाङ्गतया सर्वे देशाः प्राप्नुवन्ति, न तु समच्चयेन । यदा समो न तदा विषमः । यदा विषमो न तदा समः । स एष समः प्राप्तश्चाप्राप्तश्च । यदा न प्राप्तः स पक्षो विधिं प्रयोजयति. This is very nicely stated in the Vārttika'नियमः पाक्षिके सति']; R.1.94; Ki.5.4; (see Malli. on Śi.13.23).
Any minor observance or lesser vow, a duty prescribed to be done, but which is not so obligatory as a यम q. v. शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः । व्रतमौनोपवासं च स्नानं च नियमा दशा ॥ Atri.
Penance, devotion, religious austerities; नियमविघ्न- कारिणी Ś.1; R.15.74.
(In Mīm. phil.) A rule or precept which lays down or specifies something which, in the absence of that rule, would be optional; विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति.
(In Yoga phil.) Restraint of the mind, the second of the 8 principal steps of meditation in Yoga; दशैते नियमाः प्रोक्ता योगशास्त्र- विशारदैः Tantrasāra.
(In Rhet.) A poetical commonp lace or convention, as the description of the cuckoo in spring, peacocks in the rains &c.
Defining, definition.
Keeping down, lowering (as the voice).
Keeping secret; मन्त्रस्य नियमं कुर्याः Mb.5. 141.2.
Effort (यत्न); यथैते नियमं पौराः कुर्वन्त्यस्मिन्निवर्तने Mb.2.46.2. (नियमेन as a rule, invariably). -Comp. -उपमा a simile which expressly states that something can be compared only with something else. -धर्मः a law prescribing restraints. -निष्ठा rigid observance of prescribed rites. -पत्रम् a written agreement. -विधिः a religious rite, daily ritual; नियमविधिजलानां बर्हिषां चोप- नेत्री Ku.1.6. -स्थ a. observing penance; Ku.5.13.-स्थितिः f. steady observance of religious obligations, asceticism. -हेतुः a regulating cause.
