नियोज्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियोज्यः, त्रि, (नियोक्तुं शक्यः । नि + युज + “प्रयोज्यनियोज्यौ शक्यार्थे ।” ७ । ३ । ६८ । इति ण्यत्प्रत्ययेन निपातनात् साधुः ।) प्रेष्यः । किङ्करः । इत्यमरः । २ । १० । १७ ॥ (यथा, भागवते । ४ । १२ । २८ । “निशम्य वैकुण्ठनियोज्यमुख्ययो- र्म्मधुच्युतं वाचमुरुक्रमप्रियः ॥” नियोजनीये, त्रि । यथा, महाभारते । १२ । ३२७ । ४६ । “न नियोज्याश्च वः शिष्या अनियोगे महा- भये ॥”)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियोज्य पुं।
दासः
समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक
2।10।17।2।1
भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियोज्य¦ त्रि॰ नि + युज--शक्यार्थे कर्मणि ण्यत्
“प्रयोज्यनि-योज्यौ शक्यार्थे” पा॰ उक्तेः न कुत्वम्।
१ प्रवर्त्तनीये नि-युञ्जतेः प्रवर्त्तनार्थकत्वात् कर्मणि ण्यता तत्कर्म च-च्यते प्रवर्त्तनाकर्म च तज्जन्यप्रवृत्तिमान्। तथा च स्वर्ग-कामोयजेतेत्यादौ स्वर्गकामो यागे नियोज्यः स्वर्गका-मादेश्च कामनाद्वारा यागे कृतिसाध्यताधीद्वारा प्रवृत्ति-र्जायते इति तस्य तथात्वम्। तदेतत् शब्दचि॰ उक्तंयथा
“स्वर्गकामो यजेतेत्यादौ इष्टसाधनत्वं कार्यत्वंवा यदि विधिः समभिव्याहृतक्रियान्वयी तदन्यान्वयी[Page4080-b+ 38] वा गुरुमते यागादिर्न कार्यतया लिङा बोध यितुंशक्यते स्वर्गकामनियोज्यान्वययोग्यताविरहात्। काम-नाविशिष्टस्य हि ममेदं कर्त्तव्यमिति बोद्धृत्वं नियो-ज्यत्वं कामना च तद्बोधोपयोगे सति भवति स चकामनानन्तरं काम्यसाधनताबोधात् कार्यताबोधे सतिस्यात् एवञ्च स्वर्गसाधनताबोधे सति स्वर्गकामनियोज्या-न्वययोग्यता। न च कालान्तरे भाविस्वर्गे क्रियासाक्षात् परम्परया वा साधनमिति शब्दो बोधयितुमर्हतिआशुविनाशित्वात् परम्पराघटकानुपस्थितेश्च तृतीयप्रकारस्याभावात् अन्यथा तमादाय साधनत्वसम्भवात्कल्प्यमप्यपूर्वं न स्यात् इष्टसाधनताविधिपक्षे तु स्फुटै-वानुपपत्तिः। कार्यताविधिपक्षे अन्वयप्रकारतया साधनत्वंशाब्दमिति फलतो न विशेषः। अतः क्रियातोऽन्यत्स्वर्गसाधनतार्हं कार्यं क्रियाकार्यतानिर्वाहकमित्यार्थम्” गदाधरेणेदं नियोज्यान्वयग्रन्थे विवृतं दिङ्मात्रमत्रीच्यते
“लिङोऽर्थः कार्यत्वं पाकादिक्रियायामेब प्रथमतोऽन्वेतिन तु स्वर्गकामो यजेतेत्यादितो यागादौ प्रथमतस्तद-न्वयः किन्तु कार्यत्वेनैव वैदिकलिङ्वाच्येऽपूर्वे प्रथमतोविषयतया यागाद्यन्वयः प्रतीयते विषयत्वन्तु जन्यत्वम्तत्र च शक्यतावच्छेदककार्यत्वैकदेशे कृतौ स्वर्गकामा-न्वयः एवञ्च यागविषयकं स्वर्गकामकार्यमिति प्राथमिकोबोधः तदनन्तरमपूर्वस्य कृतिसाध्यता यागद्वारैव, यागम-कृत्वा अपूर्वस्य साधयितुमशक्यत्वादतो यागकार्यतां विनाऽपूर्वकार्यत्वसनुपपन्नमित्यनुपपत्तिप्रतिसन्धांने तत्सहकृतलोकस्थलकॢप्तक्रियाकार्यतान्वयगोचरशाव्दसामग्रीतोयागे औपादानिकोवोधः। पुनरनुसन्धीयमानशब्दसह-कृतानुपपत्तिज्ञानमेवोपादानमिति गीयते तदसहकृतंज्ञानञ्चार्थापत्तिरिति। न च यागकार्यतायाः पूर्वमप्रतीत-त्वेन यागकार्यताव्यतिरेकस्य दुर्ग्रहत्वात् उक्तानुपपत्ति-धीरेव न घटते इति वाच्यं यागो यदि कार्य्यो न स्यात्तदाऽपूर्वमपि कार्यं न स्यात् इति तर्काकारानुपपत्तिप्रतिसन्धानस्य यागकार्यतासिद्ध्यनधीनस्य यागकार्य्यतासाधकत्वोपगमात्। न चापाद्यापादकयोवेयधिकरण्यान्नोक्ततर्कसम्भव इति वाच्यं यागो यदि कृतिसाध्यो न स्यात्असाध्यककृत्यसाध्यकृतिसाध्यव्यापारको न स्यादित्ये ता-दृशतर्कोपगमेन सामञ्जस्यात्। कृतिसाध्यज्वलनादिरूप-व्यापारके कृत्यसाध्यकाष्ठादौ व्यभिचारवारणायासा-ध्यान्तं यापारविशेषणं, कृतिसाध्यव्यापारके नित्ये[Page4081-a+ 38] व्यभिचारवारणायाऽननुकूलत्वमपेक्ष्य असाध्यकत्वंकृतौ विशेषणं शब्दानुपपत्तिधीजन्यतावच्छेदकधर्म्मयोःसङ्करी न दोषो गुणगतजात्यनभ्यु पगमेन तयोर्ज्जातित्वविरहात्। अस्तु वा केवलशब्दादिप्रमाणजन्यबोधवि-जातीय एव औपादानिकवोधः अपूर्वाविषयककामिकृ-तेरपूर्वसाधनक्रियाविषयकत्वं विनाऽपूर्वसाधनतानुपपत्तेःकृतौ क्रियाविषयकत्वोपपादकत्वं तस्याः काम्यसाधनत्व-मप्यपूर्वकार्यत्वोपपादकम् इति यागादेः काम्यसाधनता-प्यौपादानिकी, अस्माकं काम्यसाधनत्वस्य विधिप्रत्ययावा-च्यत्वेऽप्यध्याहारितस्याप्यर्थस्य शाब्दधीगोचरतया पदाज-न्याया अपि स्वर्गसाधनत्वोपस्थितेः पदजन्यक्रियाद्युप-स्थितिसहितायाः शाब्दसामग्रीत्वादिष्टसाधनत्वस्योपा-दानलभ्यता। वाजपेयेन यजेतेत्यादौ च तदाभिधानिक-मेव स्वर्गादिपदोपस्थाप्ये इष्टे कथञ्चित् तृतीयार्थ-करणत्वान्वय उपेयते इति गुरुमतं निराकृत्य आहत्यैवयागादौ विध्यर्थकृतिसाध्यत्वेष्टसाधनत्वयोरन्वयबोधंव्यवस्थापयितुकामो विचाराङ्गं विप्रतिपत्तिं दर्शयति अ-थेति स्वर्गकामोयजेतेत्यादाविति कालान्तरभाविफलका-मबोधकघटितवेदवाक्ये इत्यर्थः प्रतिपाद्यत्वं विघावन्वेतिविधित्वञ्च विदधाति प्रवर्त्तयतीति व्युत्पत्त्या प्रवृत्तिप्रयो-जकत्वं प्रवृत्तिजनकतावच्छेदकप्रकारताश्रयत्वम्। कार्य-त्वस्य विशिष्यैव कथं न पक्षतोपेयते इत्याकाङ्क्षायाम् इष्ट-साधनतासाधारणरूपावच्छिन्नःपक्षो, गुरूणामभावसाधनेएव नैयायिकाभिमतस्याहत्यक्रियायामिष्टसाधनतान्वय-स्यापि निराकरणं भवतीत्युक्तानुगतरूपेण पक्षकरणप्र-योजनमाविस्कर्त्तुं विधित्वेन संग्राह्यमर्थद्वयं दर्शयति इष्ट-साधनत्वं कार्यत्वं वेति वाकारोऽनास्थायां न विकल्पे। इष्टसाधनत्वस्य विधित्वपक्षे कार्यत्वस्याकत्त्वात्। एवञ्चा-लौकिकक्रियागोचरकालान्तरभाविफलकामनाधीनप्रवृत्तिपरलिङ्पद तात्पर्य्यविषयप्रवर्त्तकधर्मत्वमेव पर्य्यवसितंपक्षतावच्छेदकम्” इत्युपक्रमे तु मध्ये
“स्वर्गकामेति काम्यस्वर्गसाधनतानिर्वाहकापूर्वरूपय्या-पारे साधनत्वाप्रत्यायमे स्वर्गकामकृतिसाध्यत्वान्वयबोध-जनकधीविषयतदन्द्रयप्रयोजक स्वर्गकामनियोज्यकत्वरू-पयोग्यताविषयकशाब्दज्ञानस्य जनकीभूतं यन्नियोज्यतयास्वर्गकामरूपनियोज्यस्यान्वयप्रयोजकस्वर्गसाधनतायाज्ञानंतदसम्भवादित्यर्थः। कृतिविषयनिष्ठकाम्यसाधनतायाःकृतिविशेषप्रयोजकत्वेऽपि इष्टासाधनस्यापि सन्ध्यावन्द-[Page4081-b+ 38] नादेः कृतित उत्पत्तेः। कृतिसाध्यत्वसामान्ये यद्यपिसाक्षान्नेष्टसाधनत्वं प्रयोजकं तथापि तत्र कर्त्तुः क्रिया-नियोज्यत्वं क्रियाविषयककृतिसाध्यताज्ञानबत्त्वरूपंप्रयोजकमिति कार्यतान्वयबोधसामान्ये कर्त्तुर्नियोज्य-ताज्ञानमन्वयप्रयोजकरूपयोग्यताज्ञानविधया कारणम्तदपि ज्ञानं शाब्दात्मकमेवोपेयम् प्रमाणान्तराभावात्। एवञ्च काम्यस्थले कामिनियोज्यतया वोधे कामनावि-शिष्टस्यैव तथाभानमङ्गीकार्यं कामनाया विशेषणत्वावश्यकत्वात् कामनाया उपलक्षणत्वे आत्ममात्रस्यैवोपलक्ष्यतया निष्कामसाधारणनियोज्यताबोधो न, विधेरप्रा-माण्यप्रसङ्गात्”
“वस्तुतो वेदस्थले विशिष्टान्वयपरतायाऔत्सर्गिक्याः कथञ्चित्सम्भवे तत्त्यागायोगादपि काम-नाया विशेषणत्वमावश्यकमेव”। स्थलान्तरे च
“यद्यपि नियोज्यत्वं विधिकर्तृकप्रवर्त्तनारूपनियोगकर्मत्वंधात्वर्थतावच्छेदकप्रवृत्तिरूपफलाश्रयत्वमेव प्रवर्त्तकज्ञा-नानुकूलव्यापारस्य नियोगत्वे च तादृशज्ञानाश्रयत्वमेवतथापि निरुक्तं पारिभाषिकमेव वा नियोज्यत्वम् अथवा प्रवर्त्तकज्ञानोपधायकतानिर्वाहकव्यापारो नियोगइति कामानासाधारणं तादृशज्ञानोपधायकत्वं नियो-ज्यत्वं कामनायास्तद्बोधोपयोगे कार्यताबोथजनकत्वेभ-वति निर्वहतीत्यर्थः। अन्यथा विशेषणांशे तद्वाधेन काम-नाया विशेषणत्वायोगादिति भावः। स चेति कामनाया-स्तद्बोधोपयोगश्चेत्यर्थः। कामनानन्तरं काम्यसाधनता-बोधात् कार्यत्वबोधे सतीति कामनाधीनकाम्यसाधनताबोधस्य कार्यताबोधोपयोगे सतीत्यर्थः साक्षात्तदनुपयो-गादिति भावः। काम्यसाधनताबोधस्य काननाधीनत्वंकामनाविषयकत्वेन बोध्यं तथा च कामनाविशिष्टस्यक्रियानियोज्यत्वं कामनायाः क्रियानिष्ठकाम्यसाधनताज्ञानोपयोगितानिर्वाह्यमिति तद्ध्वटकक्रियानिष्ठकाम्य-साधनत्वमपि नियोज्यतान्वयप्रयोजकमिति पर्य्यवसितम्। एवञ्च स्वर्गकामसाधनताया नियोज्यतया स्वर्गकामान्वयप्रयोजकत्वे च सति सत्येव नियोज्यान्वययोग्यता नियो-ज्यत्वान्वयप्रयोजकयोग्यताघटितनियोज्यान्वयबोधसाम-ग्रीसम्पत्तिः। एवञ्च यागः स्वर्गसाधनीभूत स्वनियोज्यस्वर्गकामकार्यतान्वयधीरेतन्मते तत्र स्वर्गकामे नियो-ज्यताज्ञानं क्रियायां स्वर्गसाधनताज्ञानञ्च योग्यताज्ञा-नमेव औपादानिकरूपमनुपपत्तिमात्रमूलकं वा अपेक्ष्यतेइति तस्या अपि स्वर्गसाधनताविषयकतया तन्निर्वाहक-[Page4082-a+ 38] फलसमयपर्य्यन्तस्थायिव्यापारजनकत्वज्ञानभप्यपेक्षितमितिनाहत्यक्रियाकार्यताधीरिति समुदायार्थः”। एवं शुचित्वतत्कालादिरूपकर्त्तृविशेषयुतस्यापि नियोज्य-त्वम् अत्र को नियोज्यः इत्याकाङ्क्षयोत्थापितस्य शुचित-त्तत् कालजीवित्वादेरधिकारिविशेषणस्य नियोज्यताप्रयो-जकत्वात् इत्याकारे विस्तरः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियोज्य¦ mfn. (-ज्यः-ज्या-ज्यं)
1. To be attached to.
2. To be appointed to or employed in.
3. To be commanded, instigated, &c. m. (-ज्यः) A servant. E. नि before, युज् to join, शक्यार्थे कर्मणि ण्यत् aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियोज्यः [niyōjyḥ], One charged with any duty, a functionary, an officer, a servant, employee; सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः Ś.7.4.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
नियोज्य/ नि- mfn. to be fastened or attached to Pan5c.
नियोज्य/ नि- mfn. to be endowed or furnished with( instr. ) Ca1n2.
नियोज्य/ नि- mfn. to be enjoined( अ-न्) MBh. i , 3267
नियोज्य/ नि- mfn. to be committed or intrusted Hcat.
नियोज्य/ नि- mfn. to be appointed or employed or directed or commanded Mn. MBh. etc.
नियोज्य/ नि- m. a functionary , official , servant S3ak. BhP.
