सामग्री पर जाएँ

निरक्षदेशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरक्षदेशः, पुं, (निरक्षो देशः ।) व्यक्षदेशः । पलभाशून्यस्थानम् । स तु पूर्ब्बे भद्राश्ववर्षे यम- कोटिः । दक्षिणे भारतवर्षे लङ्का । पश्चिमे केतु- मालवर्षे रोमकः । उत्तरे कुरुवर्षे सिद्धपुरी । एताः भूवृत्तपादविवराः अन्योऽन्यं प्रतिष्ठिताः । तासामुपरितो विषुवस्थो दिवाकरो याति । तासु विषुवच्छाया ध्रुवस्योन्नतिश्च न दृश्यते । तत्र दिवामानं रात्रिमानञ्च त्रिंशन्नाडिकाः । इति सूर्य्यसिद्धान्तमतम् ॥ (यथा, सिद्धान्त- शिरोमणौ गोलाध्याये । १५ । “निरक्षदेशात् क्षितिषोडशांशे भवेदवन्ती गणितेन यस्मात् ॥”)

"https://sa.wiktionary.org/w/index.php?title=निरक्षदेशः&oldid=144570" इत्यस्माद् प्रतिप्राप्तम्