निरन्तर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्तरम्, त्रि, (निर्नास्ति अन्तरं यस्मिन् यस्माद्वा ।) निविडम् । घनम् । इत्यमरः । ३ । १ । ६६ ॥ अनवकाशः । (यथा, आर्य्यासप्तसत्याम् । ४३८ । “सज्जनयोः स्तनयोरिव निरन्तरं सङ्गतं भवति ॥”) अनवधिः । अपरिधानम् । अनन्तर्धानम् । अभेदः । अतादर्थ्यम् । अच्छिद्रम् । (यथा, कुमार- सम्भवे । ५ । २५ । “शिलाशयान्तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु ॥”) अविना । अबहिः । अनात्मीयम् । अनवसरः । अमध्यम् । अनन्तरात्मा । एते निरुपसर्ग- पूर्ब्बकान्तरशब्दार्थाः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्तर वि।

निबिडम्

समानार्थक:घन,निरन्तर,सान्द्र

3।1।66।1।2

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु। समीपे निकटासन्नसन्निकृष्टसनीडवत्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्तर¦ त्रि॰ निर्गतमन्तरं यस्मात् प्रा॰ ब॰।

१ सन्तते अवि-च्छिन्ने सन्ततियुक्ते सन्ततिश्च दैशिकी कालिकी च तत्रदैशिकविच्छेदशून्ये
“कृतापराधानपि योषितः प्रि-यान् परिष्वजन्ते शयने निरन्तरम्” ऋतुस॰
“भूभर्त्तु-रायतनिरन्तरसन्निविष्टाः” माघः
“निरन्तरास्वन्तरवातवृष्टिसु” कुमा॰ कालिकविच्छेदशून्ये निरवधौ यथा
“कपिलानां सवत्सानां वर्षमेकं निरन्तरम्” भा॰ व॰

९७ अ॰

२ अपरिधाने

३ अनन्तर्द्धाने

४ अभेदे

५ अतादार्थ्ये च। निर-न्तरालादयोऽप्यत्र
“निरन्तराला करिणां कदम्बकैः”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्तर¦ mfn. (-रः-रा-रं)
1. Coarse, gross, without interstices.
2. Conti- nuous.
3. Uninterrupted, continual.
4. Unbounded.
5. Indentical, not different.
6. Unconcealed, not hidden or vanished.
7. Not external, &c. E. निर् not, अन्तर interval, difference, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरन्तर/ निर्--अन्तर mf( आ)n. having no interval (in space or time) , close , compact , dense , uninterrupted , perpetual , constant(606549 -ताf. ) MBh. Ka1v. etc.

निरन्तर/ निर्--अन्तर mf( आ)n. faithful true Pan5c.

निरन्तर/ निर्--अन्तर mf( आ)n. abounding in , full of( comp. ) R. Sa1h.

निरन्तर/ निर्--अन्तर mf( आ)n. not other or different , identical MBh. R. etc.

निरन्तर/ निर्--अन्तर mf( आ)n. not hidden from view W.

"https://sa.wiktionary.org/w/index.php?title=निरन्तर&oldid=362569" इत्यस्माद् प्रतिप्राप्तम्