सामग्री पर जाएँ

निरसनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरसनम्, क्ली, (निरस्यते क्षिप्यते इति । निर् + अस + ल्युट् ।) प्रत्याख्यानम् । इत्यमरः । ३ । २ । ३१ ॥ (यथा, महाभारते । १४ । ४ । १० । “स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनञ्च तत् । नियतो वर्त्तयामास प्रजाहितचिकीषया ॥”) वधः । निष्ठीवनम् । इति मेदिनी । ने, १९१ ॥

"https://sa.wiktionary.org/w/index.php?title=निरसनम्&oldid=144600" इत्यस्माद् प्रतिप्राप्तम्