निराकारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निराकारः, पुं, (निर्गत आकारो देहादिदृश्य- स्वरूपं यस्मादिति । निरादय इति समासः ।) परमेश्वरः । ब्रह्म । यथा, -- “साकारञ्च निराकरं सगुणं निर्गुणं प्रभुम् । सर्व्वाधारञ्च सर्व्वञ्च स्वेच्छारूपं नमाम्यहम् ॥” अपि च । “तेजःस्वरूपो भगवान् निराकारो निराश्रयः । निलिप्तो निर्गुणः साक्षी स्वात्मारामः परात्परः ॥ ध्यायन्ति योगिनस्तेजस्त्वदीयमशरीरिणम् । वैष्णवाश्चैव साकारं कमनीयं मनोहरम् ॥ केचिच्चतुर्भुजं शान्तं लक्ष्मीकान्तं मनोहरम् । शप्त्रचक्रगदापद्मधरं पीताम्बरं परम् ॥ द्विभुजं कमनीयञ्च किशोरं श्यामसुन्दरम् । शान्तं गोपाङ्गनाकान्तं रत्नभूयणभूषितम् ॥ एषं तेजस्विनं भक्त्या सेवन्ते सततं मुदा । ध्यायन्ति योगिनो यत्तु कुतस्तेजस्विनं विना ॥” अपि च । “योनिर्गुणः स निर्लिप्तः शक्तिभ्यो नहि संयुतः । सिसृक्षुराश्रितः शक्तौ निर्गुणः सगुणो भवेत् ॥ यावन्ति च शरीराणि भोगार्हाणि महामुने ! । प्राकृतानि च सर्व्वाणि श्रीकृष्णविग्रहं विना ॥ ध्यायन्ति योगिनस्तञ्च शुद्धं ज्योतिःस्वरूपिणम् । हस्तपादादिरहितं निर्गुणं प्रकृतेः परम् ॥ वैष्णवास्तं न मन्यन्ते तद्भक्ताः सूक्ष्मदर्शिनः । कुतो बभूव तज्ज्योतिरहो तेजस्विनं विना ॥ ज्योतिरभ्यन्तरे नित्यं शरीरं श्यामसुन्दरम् । अतीवामूल्यसद्रत्नभूषणेन विभूषितम् ॥ एवं भक्ताश्च ध्यायन्ति शश्वच्चरणसेविनः । योगिनो योगरूपञ्च काले भक्तिबिपाकतः ॥ ज्योतिरभ्यन्तरे मूर्त्तिं पश्यन्ति कृपया प्रभोः ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३२ । ७ । ४२ अः ॥ तस्य द्बिचत्वारिंशन्नामानि यथा, -- “जगद्योनिरयोनिस्त्वमनन्तोऽव्यय एव च । ज्योतिःस्वरूपो ह्यनघः सगुणो निर्गुणो महान् ॥ भक्तानुरोधात् साकारो निराकारो निरङ्कुशः । निर्व्यूहो निखिलाधारो निःशङ्को निरुपद्रवः ॥ निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तकः । स्वात्मारामः पूर्णकामोऽनिमेषो नित्य एव च ॥ सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्ययः । वेदहेतुश्च वेदाश्च वेदाङ्गो वेदविद्बिभुः ॥ द्विचत्वारिंशन्नामानि प्रातरुत्थाय यः पठेत् । दृढां भक्तिं हरेर्दास्ये लभते वाञ्छितञ्च यत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ अध्यायः ॥ आकारशून्ये, त्रि ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निराकारः [nirākārḥ], Reproach, censure; see under निर् also.
