सामग्री पर जाएँ

निराकृतिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निराकृतिः, स्त्री, (निर् + आ + कृ + क्तिन् ।) निर- सनम् । निराकरणम् । इत्यमरः । ३ । २ । ३१ ॥ (निर्गता आकृतिर्यस्मादिति ।) अनाकारे अस्वाध्याये च त्रि । इति मेदिनी । ते, २०३ ॥ (पुं, पञ्चमहायज्ञानुष्ठानरहितः । यथा, मनुः । ३ । १५४ । “यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ॥” “निराकृतिः पञ्चमहायज्ञानुष्ठानरहितः । तथा च छन्दोगपरिशिष्टम् । निराकर्त्तामरादीनां स विज्ञेयो निराकृतिः ॥” इति कुल्लूकभट्टः ॥ “निराकृतिः सत्यधिकारे महायज्ञानुष्ठान- रहितः । अनद्धा निराकृतिरुच्यते । एवं हि शतपथे । यो न देवानर्च्चति न पितॄन् न मनुष्या- निति । यैस्तु पठ्यते अस्वाध्यायश्रुतधनैर्निरा- कृतिरुदाहृतः ।” इति मेधातिथिः ॥ * ॥ रोहितमनुपुत्त्रः । यथा, हरिवंशे । ७ । ६३ । “दक्षपुत्त्रस्य पुत्त्रास्ते रोहितस्य प्रजापतेः । मनोः पुत्त्रो धृष्टकेतुः पञ्चहोत्रो निराकृतिः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निराकृतिः [nirākṛtiḥ], f.,

निराक्रिया Repudiation, expulsion, rejection.

Refusal.

Obstruction, obstacle, impediment, interruption.

Opposition, also see under निर्.

"https://sa.wiktionary.org/w/index.php?title=निराकृतिः&oldid=363436" इत्यस्माद् प्रतिप्राप्तम्