निरामयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निरामयः, त्रि, (निर्गत आमयो व्याधिर्यस्मात् ।) रोगरहितः । तत्पर्य्यायः । वार्त्तः २ कल्यः ३ । इत्यमरः । २ । ६ । ५७ ॥ नीरुजः ४ पटुः ५ उल्लाघः ६ लघुः ७ अगदः ८ निरातङ्कः ९ । अनातङ्कोऽपि पाठः । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । १ । ४६ । “निरामयाणां चित्रन्तु भक्तमध्ये प्रकीर्त्तितम् ॥” उपद्रवादिशून्यः । यथा, महाभारते । १ । १५७ । ११ । “इदं नगरमभ्यासे रमणीयं निरामयम् । वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ॥” रोगनाशकः । यथा, मुकुन्दमालायाम् । २१ । “किमौषधैः क्लिश्यसि मूढ दुर्म्मते ! निरामयं कृष्णरसायनं पिब ॥”)
निरामयः, पुं, (निर्गतः आमयो यस्मात् ।) इडिक्कः । वनच्छगलः । इति मेदिनी । ये, १२१ ॥ शूकरः । इति शब्दमाला ॥ (नृप- विशेषः । यथा, महाभारते । १ । १ । २३४ । “धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः ॥” महादेवः । इति महाभारतम् । १३ । १७ । १४८ ॥ क्ली, कुशलम् । यथा, तत्रैव । ५ । ७८ । ८ । “कुरूणां पाण्डवानाञ्च प्रतिपत्स्व निरामयम् ॥”)
