सामग्री पर जाएँ

निरीक्षणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरीक्षणम्, क्ली, (निर् + ईक्ष + भावे ल्युट् ।) दर्शनम् । यथा, -- “द्रवात्तथान्नान्निशि सेविताच्च विण्मूत्रघातक्रमनिग्रहाच्च । वास्पग्रहात् सूर्य्यनिरीक्षणाच्च नेत्रे विकारान् जनयन्ति दोषाः ॥” इति माधवकरः ॥ (निरीक्षते इति । निर् + ईक्ष + ल्युः । दर्शके, त्रि । यथा, भागवते । ७ । १५ । ३२ । “प्राणापानौ संनिरुन्ध्यात् पूरकुम्भकरेचकैः । यावत् मनस्त्यजेत् कामान् स्वनासाग्रनिरी- क्षणः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरीक्षणम् [nirīkṣaṇam] निरीक्षा [nirīkṣā] निरीक्षितम् [nirīkṣitam], निरीक्षा निरीक्षितम् 1 A look.

Looking at, regarding, seeing, beholding; मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः Ki.2.55.

Looking out for, searching.

Consideration, regard; निरीक्षया as to, in respect of.

Hope, expectation.

Aspect of planets. निरीशम् (-षम्) A plough-share.

"https://sa.wiktionary.org/w/index.php?title=निरीक्षणम्&oldid=364107" इत्यस्माद् प्रतिप्राप्तम्