सामग्री पर जाएँ

निरुक्तम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरुक्तम्, क्ली, (निर्निश्चयेन उक्तम् ।) वेदवेदाङ्ग- शास्त्रविशेषः । यथा, -- “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषन्तथा । छन्दश्चेति षडङ्गानि वेदानां वैदिका विदुः ॥” इति शब्दरत्नावली ॥ (तथाहि, -- “वर्णागमो वर्णविपर्य्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योग- स्तदुच्यते पञ्चविधं निरुक्तम् ॥” यदुक्तं देवराजयज्वना निर्व्वचने, तद्यथा, -- कार्थानवगतसंस्कारानुक्रमणम् । परोक्षकृता- ध्यात्मिकमन्त्रलक्षणम् । स्तुत्याशीःशपथाभि- शापाभिख्यापरिदेवनानिन्दाप्रशंसादिभिर्मन्त्रा- भिव्यक्तिहेतूपदेशः । निदानपरिज्ञानव्याख्या- पनायानादिष्टदेवतोपपरीक्षणायाध्यात्मोपदेश- प्रकृतिभूमत्वम् । इतरेतरजन्मत्वम् । स्थानत्रय- भेदतः तिसृणामेकैकस्या माहाभाग्यकृतोऽनेक- नामधेयप्रतिलम्भः । पृथगभिधानन्तूत्पत्तिसम्ब- न्धाद्बा । देवतानामाकारचिन्तनम् । भक्तिसाह- चर्यसंस्तवकर्म्मसूक्तभाक्त्वहविर्भाक्त्वव्यञ्जनभाक्त्वानि । पृथिव्यन्तरिक्षद्युस्थानदेवतानामभिधेयाभिधान- व्युत्पत्तिप्राधान्यश्रुत्युदाहरणम् । तन्निर्व्वचन- विचारोपपत्यवधारणानुक्रमेण व्याख्याय दैवत- प्रकरणनिर्णयः । विद्यापारप्राप्त्युपायोपदेशः । मन्त्रार्थनिर्व्वचनद्वारेण देवताभिधाननिर्व्वचनफलं देवताताद्भाव्यम् । इत्येष समासतो निरुक्त- शास्त्रचिन्ताविषयः ॥” * ॥ “वर्णागमो वर्णविपर्य्ययश्च इत्यादिना निश्चये- नोक्तं निरुक्तम् ।” इत्यमरटीकायां भरतः ॥ पदभञ्जनम् । यथा, -- “प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम् ॥” इति हेमचन्द्रः ॥ कथिते, त्रि । यथा । “निरुक्ता प्रकृतिर्द्वेधा ।” इति जगदीशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरुक्तम् क्रि.वि.
(निर्+वच्+क्त+अमु) प्रजापति को सम्बोन्धित करते समय,श्रौ.को. (सं.) II. 287

"https://sa.wiktionary.org/w/index.php?title=निरुक्तम्&oldid=478907" इत्यस्माद् प्रतिप्राप्तम्