सामग्री पर जाएँ

निरूह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरूहः, पुं, (निर् + ऊह शून्ये + घञ् ।) वस्ति- भेदः । यथा, -- “वस्तिर्द्विधानुवासाख्यो निरूहश्चेतिसंज्ञितः । यः स्नेहैर्दीयते स स्यादनुवासननामकः । कषायक्षीरतैलैर्यो निरूहः स निगद्यते ॥” इति सारकौमुदी ॥ अथ निरूहवस्तिकर्म्मविधिः । आत्रेय उवाच । “चतुरङ्गुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वा तथा वस्तिप्रतिकर्म्म कुर्य्यात् । नातिचोष्णे च काले च न शीते नच भोजिते । न निद्रादौ न मूत्रार्त्ते विष्ठार्त्ते नच वेदभाक् ॥ वस्तिकर्म्मनिरूहञ्च कारयेत्तं निरस्य च । आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्य नातिशिथिलशय्यायां शाययित्वा वामाङ्गे वाम- पादं दक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घो- परि संस्थाप्य गुदाभ्यन्तरे द्व्यङ्गुलमात्रां नाडीं सुधीः सञ्चारयेत् । ततः शनैः शनैः वस्तिं निष्पीड्य द्बिपलपरिमिततैलेन निरूहं कुर्य्यात् । निरूहानन्तरं शनैः शनैरुत्तानं शाययित्वोर्ड्घी- कृत्य च पश्चात् सङ्कोच्य पाणिभिः पञ्चवारान् स्फिक्पिण्डान् त्रोटयेत् । ततः स्वस्थं कृत्वा क्षणेनाप्यामाशयं मलस्थानं बोधयति । वस्त्यु- दरवातान् दोषान् निवारयति । पण्डितास्तं वस्तिनिरूहं तद्वस्तिकर्म्म च विदुः ।” इति हारीतोत्तरे सूत्रस्थाने तृतीयोऽध्यायः ॥ “नरो विरिक्तस्तु निरूहदानं विवर्ज्जयेत् सप्तदिनान्यवश्यम् । शुद्धो विरेकेण निरूहदानं तद्ध्यस्य शून्यं विकृषेच्छरीरम् ॥” “विश्वक्स्थितं दोषचयं निरस्य सर्व्वान् विकारान् शमयेन्निरूहः । देहे निरूहेण विशुद्धमार्गे सस्नेहनं वर्णवलप्रदश्च ॥” इति सिद्धिस्थाने प्रथमेऽध्याये ॥ “ससैन्धवक्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारी । आनाहपार्श्वामययोनिदोषान् गुल्मानुदावर्त्तरुजञ्च हन्यात् ॥ यष्ट्याह्वमूलाष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः । युक्तं ससर्पिर्मधुवातरक्तः वैस्वर्य्यवीसर्पहितो निरूहः ॥” इति सिद्धिस्थाने तृतीयेऽध्याये चरकेणोक्तम् ॥) ऊहशून्यः । निश्चितम् । इति मेदिनी । हे, १८ ॥ निग्रहः । तर्कः । इति हेमचन्द्रः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरूह¦ पु॰ निर् + ऊह--करणे घञ्। सुश्रुतोक्ते दोषनि-र्हरणोपावे वस्तिभेदे
“तत्र द्विविधो वस्तिः नैरूहिकःस्वैहिकञ्च। आस्थापयं निरूह इत्यनर्थान्तरम्। तस्य[Page4089-a+ 38] विकल्पोमाधुतैलिकः। तस्य पर्य्यायशब्दो यापनोयुक्त-रयः सिद्धवस्तिरिति। स दोषनिर्हरणाच्छरीररोगहर-णाद्वा निरूहः वयःस्थापनादायुःस्थापनद्वास्थापनम्। माधुतैलिकविधानञ्च निरूहक्रमचिकित्सिते वक्ष्यामः”।
“तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवा-सनः पादावकृष्टः। अनुवसन्नपि न दुष्यत्यनुदिवसं वादीयते इत्यनुवासनः। तस्यापि विकल्पोऽर्द्धार्द्धमात्राव-कृष्टोऽपरिहार्य्यो मात्रावस्तिरिति”।
“निरूहः शोधनो-ल्लेखी स्नेहनो वृंहणो मतः। निरूहशोधितान्मार्गान्सम्यक्स्नेहोऽनुगच्छति। अपेतसर्वदोषासु नाडीष्विववहज्जलम्। सर्वदोषहरश्चासौ शरीरस्य च जीवनः। तस्माद्विशुद्धदेहस्य स्नेहवस्तिर्विधीयते। तत्रोन्मादभ-यशोकपिपासारोचकाजीर्णार्शःपाण्डु रोगभ्रममदमूर्च्छा-{??}र्दिकुष्ठमहोदरस्थौल्यश्वासकासकण्टशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्वलाग्न्यसहाबालवृद्धौ च वा॰तरोगादृते क्षीणा नानुवास्या नास्थापयिव्याः”। उ-दरी च प्रमेही च कुष्ठी स्थूलश्च मानवः अवश्यं स्था-पनीयाश्च नानुवास्याः कथञ्चन। असाध्यता विकाराणांस्यादेषामनुवासनात्”। तत्प्रयोगप्रकारश्च तत्रैवीक्तो यथा(
“अथातो निरूहोपक्रमचिकित्सितं व्याख्यास्यामः। अथानुवासितमास्थापयेत्स्वभ्यक्तस्विन्नशरीरमुत्सृष्टवहि-र्वेषमप्रवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्याया-प्रधःसुपरिग्रहायां श्रोणिपदेशव्यूढायामनुपधानायांवामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितरप्रसारितसक्थिंसुमनसं जीर्णान्नं वाग्यतं सुनिषस्मदेहं विदित्वाततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यांकर्णिकामुपरि निष्पीड्य सव्यपाणिकनिष्ठिकानामिकाभ्यांवस्तेर्मुखार्द्धं सङ्कोच्य मध्यमप्रदेशिन्यङ्गुष्ठैरर्द्धन्तु विवृ-तास्यं कृत्वा वस्तावौषधं प्रक्षिप्य दक्षिणहस्ताङ्गुष्ठप्रदे-शिनीभ्यां चानुसिक्तमनायतमबुद्बुदमसङ्कुचितमवातमौ-षधासन्नमुपसंगृह्य पुनरितरेण गृहीत्वा दक्षिणेनावसि-ञ्चेत्ततः सूत्रेणैवषौधान्ते द्विस्त्रिर्वावेष्ट्य बध्नीयात्। अथदक्षिणेनोत्तानेन पाणिना वस्तिं गृहीत्वा वामहस्तम-ध्यमाङ्गलिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्ठेन नेत्रद्वारंपिधाय धृताभ्यक्ताग्रनेत्रं घृताक्तगुदाय प्रयच्छेदनुपृष्ठ-यंशं सममुन्धुखमाकर्णिकं मेत्रं प्रणिधत्स्नेति ब्रूयात्। वस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्। एकेनैवा-[Page4089-b+ 38] पपीडेन न द्रुतं न बिलम्बितम्” ततो नेत्रमपनीयत्रिशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात्। आतुरमुपवेशयेदुत्कटुकं वस्त्यागमनार्थम। निरूहप्रत्यागमनकालस्तु मुहूर्त्तो भवति।
“अनेन विधिना वस्तिंदद्याद्वस्तिविशारदः। द्वितीयं वा तृतीयं वा चतुर्थं वायथार्थतः। सम्यग्निरूढलिङ्गे तु प्राप्ते वस्तिं निवा-रयेत्। अपि हीनक्रमं कुर्य्यान्न तु कुर्य्यादनिक्रमम्। विशेषात्सुकुमाराणां हीनएव क्रमो हितः। यस्य स्या-द्वस्तिरत्यल्पवेगो हीनमलानिलः। दुर्निरूढः स विज्ञेयोमूत्रार्त्त्यरुचिजाड्यवान्। यान्येव प्राक्प्रयुक्तानि लि-ङ्गान्यतिविरेचिते। तान्येवातिनिरूढेऽपि विज्ञेयानिविपश्चिता। यस्य क्रमेण गच्छन्वि विट्पित्तकफवायवः। लाघवं चोपजायेत सुनिरूढं तमादिशेत्। सुनिरूढंततोजन्तुं स्नानवन्त तु भोजयेत्। पित्तक्लेस्मानिलाविष्टंक्षीरयूषरसैः क्रमात्। सर्वं वा जाङ्गलरसैर्भोजयेदवि-कारिभिः। त्रिभागहीनमर्द्धं वा हीनमात्रमथापि वा। यथाग्निदोषं मात्रेयं भोजनस्य विषीयते। अनन्तरंततो युञ्ज्याद्यथास्वं स्नेहवस्तिना। विविक्तता मन-स्तुष्टिः स्निग्धता व्याधिनिग्रहः। आस्थापनस्नेहवस्त्योःसम्यग्दाने तु लक्षणम्। तदहस्तस्य पवनाद्भयं बलवद-दिष्यते। रसौदनस्तेन शस्तस्तदहश्चानुवासनम्। पश्चा-दग्निबलं मत्वा पवनस्य च चेष्टितम्। अन्नोपस्तम्भितेकोष्ठे स्नेहवस्तिर्विधीयते। अनायान्तं मुहूर्त्तात्तु नि-रूहं शोधनैर्हरेत्। तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्रा-म्लसंयुतैः। विगुखानिलविष्टव्यं चिरं तिष्ठन्निरूह-चम्। शूलाऽरतिज्वरानाहं मरणं वा प्रवर्त्तयेत्। तत्तुभुक्तवते देयमास्थापनमिति स्थितिः। विसूचिकां वाजनयेच्छर्दिं वापि सुदारुणम्। कोपयेत्सर्वदोषान्वातस्य हद्यादमोजिने। जीर्णान्नस्याशये दोषाः पुंसः प्र-व्यक्तिमागताः। निःशेषाः सु{??}मायान्ति भोजनेनाप्रपी-डिताः। न वास्थापनविक्षिप्तमक्षमग्निः प्रधावति। त-स्मादास्थापनं देयं निराहाराय जानता। आवस्थिकंक्रमञ्चापि मत्वा कायं निरूहणम्। मलेऽपकृष्टेऽदोषाणांबलवत्त्वं न विद्यते”। वस्तिभेदश्च (पिचकारी) ख्यातः
“वस्तिर्द्विधानुवास्याख्योनिरूहश्चेति संज्ञितः। यःस्नेहैर्दीयते स स्यादनुवासननामकः। कषायक्षीरतै-लैश्च निरूहः स निगद्यते” इति वेद्यसारकौ॰। ल्युट्। निरूहणमप्यत्र न॰[Page4090-a+ 38]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरूह¦ m. (-हः)
1. A complete sentence, one having no ellipsis.
2. Certainty, ascertainment.
3. Logic, disputation.
4. An enema, one not of an oily kind. E. निर् privative, and ऊह reasoning, &c. करणे घञ् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरूहः [nirūhḥ], 1 An enema, not of an oily kind.

Logic, disputation.

Certainty, ascertainment.

A purging clyster.

A sentence having no ellipsis, a complete sentence.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरूह/ निर्--ऊह m. a complete sentence , one having no ellipsis W.

निरूह/ निर्- m. a purging clyster , an enema not of an oily kind Sus3r.

निरूह/ निर्- m. = नि-ग्रहL.

निरूह/ निर्-ऊह m. ( निर्-2. ऊह्)logic , disputation W.

निरूह/ निर्-ऊह m. certainty , ascertainment ib.

निरूह/ निर्-ऊह mfn. = निश्-चितL. 2.

"https://sa.wiktionary.org/w/index.php?title=निरूह&oldid=364851" इत्यस्माद् प्रतिप्राप्तम्