सामग्री पर जाएँ

निरूहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरूहः, पुं, (निर् + ऊह शून्ये + घञ् ।) वस्ति- भेदः । यथा, -- “वस्तिर्द्विधानुवासाख्यो निरूहश्चेतिसंज्ञितः । यः स्नेहैर्दीयते स स्यादनुवासननामकः । कषायक्षीरतैलैर्यो निरूहः स निगद्यते ॥” इति सारकौमुदी ॥ अथ निरूहवस्तिकर्म्मविधिः । आत्रेय उवाच । “चतुरङ्गुलां वेणुमयीं नाडीं प्रतिलक्षणं कृत्वा तथा वस्तिप्रतिकर्म्म कुर्य्यात् । नातिचोष्णे च काले च न शीते नच भोजिते । न निद्रादौ न मूत्रार्त्ते विष्ठार्त्ते नच वेदभाक् ॥ वस्तिकर्म्मनिरूहञ्च कारयेत्तं निरस्य च । आदौ मूत्रविष्ठोत्सर्गं कृत्वा गुदं प्रक्षाल्य नातिशिथिलशय्यायां शाययित्वा वामाङ्गे वाम- पादं दक्षिणाङ्गे दक्षिणपादञ्च सङ्कोच्य जङ्घो- परि संस्थाप्य गुदाभ्यन्तरे द्व्यङ्गुलमात्रां नाडीं सुधीः सञ्चारयेत् । ततः शनैः शनैः वस्तिं निष्पीड्य द्बिपलपरिमिततैलेन निरूहं कुर्य्यात् । निरूहानन्तरं शनैः शनैरुत्तानं शाययित्वोर्ड्घी- कृत्य च पश्चात् सङ्कोच्य पाणिभिः पञ्चवारान् स्फिक्पिण्डान् त्रोटयेत् । ततः स्वस्थं कृत्वा क्षणेनाप्यामाशयं मलस्थानं बोधयति । वस्त्यु- दरवातान् दोषान् निवारयति । पण्डितास्तं वस्तिनिरूहं तद्वस्तिकर्म्म च विदुः ।” इति हारीतोत्तरे सूत्रस्थाने तृतीयोऽध्यायः ॥ “नरो विरिक्तस्तु निरूहदानं विवर्ज्जयेत् सप्तदिनान्यवश्यम् । शुद्धो विरेकेण निरूहदानं तद्ध्यस्य शून्यं विकृषेच्छरीरम् ॥” “विश्वक्स्थितं दोषचयं निरस्य सर्व्वान् विकारान् शमयेन्निरूहः । देहे निरूहेण विशुद्धमार्गे सस्नेहनं वर्णवलप्रदश्च ॥” इति सिद्धिस्थाने प्रथमेऽध्याये ॥ “ससैन्धवक्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारी । आनाहपार्श्वामययोनिदोषान् गुल्मानुदावर्त्तरुजञ्च हन्यात् ॥ यष्ट्याह्वमूलाष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः । युक्तं ससर्पिर्मधुवातरक्तः वैस्वर्य्यवीसर्पहितो निरूहः ॥” इति सिद्धिस्थाने तृतीयेऽध्याये चरकेणोक्तम् ॥) ऊहशून्यः । निश्चितम् । इति मेदिनी । हे, १८ ॥ निग्रहः । तर्कः । इति हेमचन्द्रः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरूहः [nirūhḥ], 1 An enema, not of an oily kind.

Logic, disputation.

Certainty, ascertainment.

A purging clyster.

A sentence having no ellipsis, a complete sentence.

"https://sa.wiktionary.org/w/index.php?title=निरूहः&oldid=364856" इत्यस्माद् प्रतिप्राप्तम्