सामग्री पर जाएँ

निरृथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निरृथः, पुं, (निरन्तरं ऋच्छतीति । निर् + ऋ गतौ + “अर्त्तेर्निरि ।” उणां २ । ८ । इति थक् ।) सामवेदः । इत्युणादिकोषः । २ । १०८ ॥ (हिंसा । यथा, ऋग्वेदे । ७ । १०४ । १४ । “किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ।” “द्रोघवाचोऽनृचवाचो राक्षसास्ते तव निरृ- थम् । निःपूर्ब्बोऽर्त्तिर्हिंसायां वर्त्तते । निरृथं निःशेषेणार्त्तिं हिंसां सचन्तां सेवन्ताम् ।” इति तद्भाष्ये सायनः ॥)

"https://sa.wiktionary.org/w/index.php?title=निरृथः&oldid=144668" इत्यस्माद् प्रतिप्राप्तम्