सामग्री पर जाएँ

निर्गुणः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निर्गुणः, पुं, (निर्गता गुणा यस्मात् ।) सत्त्वरज- स्तमोगुणातीतः । परमेश्वरः । यथा, -- “साकारञ्च निराकारं सगुणं निर्गुणं प्रभुम् । सर्व्वाधारञ्च सर्व्वञ्च स्वेच्छारूपं नमाम्यहम् ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे १३ अध्यायः ॥ “गुणभृन्निर्गुणो महान् ।” इति महाभारते । १३ । १४९ । १०३ ॥ विद्यादिशून्ये, त्रि, । यथा, -- “सगुणो निर्गुणो वापि सहायो बलवत्तरः । तुषेणापि परिभ्रष्टस्तण्डुलो नाङ्कुरायते ॥” इत्युद्भटः ॥ (ज्यारहिते । यथा, निर्गुणं धनुः ॥)

"https://sa.wiktionary.org/w/index.php?title=निर्गुणः&oldid=144683" इत्यस्माद् प्रतिप्राप्तम्