सामग्री पर जाएँ

निर्ग्रन्थः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निर्ग्रन्थः, पुं, (ग्रन्थेभ्यः श्रुत्यादिनियमभ्या निर्गतः ।) नग्नकः । निस्वः । बालिशः । इति मेदिनी । थे, २० ॥ मुनिः । इति हेमचन्द्रः ॥ १ । ७६ ॥ द्यूतकारः । इति जटाधरः ॥ त्रि, ग्रन्थेभ्यो निर्गतः । निवृत्तहृदयग्रन्थिः । यथा, भागवते । १ । ७ । १० । “आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ॥” (“निर्ग्रन्थाः ग्रन्थेभ्यो निर्गताः । तदुक्तंगीतासु । ‘यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥’ इति । “यद्वा, ग्रन्थिरेव ग्रन्थः निवृत्तः क्रोधा- हङ्काररूपो ग्रन्थिर्येषां ते निवृत्तहृदयग्रन्थय इत्यर्थः ।” इति तट्टीकायां स्वामी ॥)

"https://sa.wiktionary.org/w/index.php?title=निर्ग्रन्थः&oldid=144689" इत्यस्माद् प्रतिप्राप्तम्