निर्घातः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्घातः, पुं, (निर् + हन + घञ् ।) वाय्वभिहत- वायुप्रपतनजन्यशब्दविशेषः । यथा, -- “वायुनाभिहते वायौ गगनाच्च पतत्यधः । प्रचण्डघोरनिर्घोषो निर्घात इति कथ्यते ॥” इति शब्दमाला ॥ अपि च । “यदान्तरीक्षे बलवान् मारुतो मरुताहतः । पतत्यधः स निर्घातो जायते वायुसम्भवः ॥” इति ज्योतिषम् ॥ (एतस्य लक्षणादिकं यथा, बृहत्संहितायां ३९ अध्याये । “पवनः पवनाभिहतो गगनादवनौ यदा समा- पतति । भवति तदा निर्घातः स च पापो दीप्तविहग- रुतः ॥ अर्कोदयेऽधिकरणिकनृपधनियोधाङ्गना- बणिग्वेश्याः । आप्रहरांशेऽजाविकमुपहन्याच्छूद्रपौरांश्च ॥ आमध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीड- यति । वैश्वजलदांस्तृतीये चौरान् प्रहरे चतुर्थे च ॥ अस्तं याते नीचान् प्रथमे यामे निहन्ति शस्यानि । रात्रौ द्वितीययामे पिशाचमङ्घान्निपीडयति ॥ तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च । भैरवजर्जरशब्दे याति यतस्तां दिशं हन्ति ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्घातः [nirghātḥ], 1 Destruction.
A whirlwind, a violent gust of wind, hurricane.
The noise of contending winds (vapours ?) &c. in the sky; कुरुकुलनिधनोत्पातनिर्घात- वातः Ve.1.22; निर्घातोग्रैः कुञ्जलीनाञ् जिघांसुर्ज्यानिर्घोषैः क्षोभया- मास सिंहान् R.9.64; Ms.1.38;4.15,7; Y.1.145; (वायुना निहतो वायुर्गगनाच्च पतत्यधः । प्रचण्डघोरनिर्घोषो निर्घात इति कथ्यते ॥.)
An earth-quake.
A thunderstroke; निर्घातश्च महानासीत् साकं च स्तनयित्नुभिः Bhāg.1.14.15.
A stroke in general; अहह दारुणो दैवनिर्घातः U.2.
An unusual event boding calamity (उत्पात); तस्मिन्मुहूर्ते संप्राप्ते निर्घाताश्चापतन्मुहुः Mb.3.4.23; Ms.1.38; Bhāg.3.17.8.
