सामग्री पर जाएँ

निर्झरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निर्झरः, पुं, (निर्झृणाति जीर्णीभवति उच्च- स्थानपतनादिति । निर् + झॄ + अच् ।) पर्व्वता- वतीर्णजलप्रवाहः । इति भरतः ॥ रुत्वा अन्यथा वा गिरौ जलप्रवाहः । इति मधुः ॥ पर्व्वताद्वेगेन पतज्जलं झोरा इति ख्यातम् । इति कोक्कटः ॥ तत्पर्य्यायः । झरः २ । इत्य- मरः । २ । ३ । ५ ॥ निर्झरी ३ । इति शब्दरत्ना- वली ॥ (यथा, महाभारते । ३ । ६४ । ८ । “सरितो निर्झरांश्चैव ददर्शाद्भुतदर्शनान् ॥”) तज्जलगुणाः । लघुत्वम् । पय्यत्वम् । दीपन- त्वम् । कफनाशित्वञ्च । इति राजवध्मभः ॥ * ॥ (यथा च । “शैलसानुसवद्वारि प्रवाहे निर्झरो झरः । स तु प्रस्रवणश्चापि तत्रत्यं नैर्झरं जलम् ॥ नैर्झरं रुचिकृन्नीरं कफघ्नं दीपनं लघु । मधुरं कटुपाकञ्च वातं स्यादतिपित्तलम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥) सूर्य्यघोटकः । तुपानलः । इति मेदिनी । रे, १७ ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निर्झरः [nirjharḥ] रम् [ram], रम् 1 A spring, waterfall, cataract, cascade, mountain-torrent; शीतं निर्झरवारि पानम् Nāg.4; R.2.13; Śānti.2.17,21;4.6.

रः Burning chaff.

An elephant.

A horse of the sun.

"https://sa.wiktionary.org/w/index.php?title=निर्झरः&oldid=365694" इत्यस्माद् प्रतिप्राप्तम्