निर्णयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्णयः, पुं, (निर्णयनमिति । निर् + नी + “एरच् ।” ३ । ३ । ५६ । इति भावे अच् ।) अवधार- णम् । तत्पर्य्यायः । निश्चयः २ । इत्यमरः । १ । ५ । ३ ॥ निर्णयनम् ३ निचयः ४ । इति शब्दरत्नावली ॥ (यथा, मनुः । १२ । २ । “स तानुवाच धर्म्मात्मा महर्षीन् मानवो भृगुः । अस्य सर्व्वस्य शृणुत कर्म्मयोगस्य निर्णयम् ॥”) विचारः । तत्पर्य्यायः । तर्कः २ गुञ्जा ३ चर्च्चा ४ । इति यिकाण्डशेषः ॥ विरोधपरिहारः । इति मिताक्षरा ॥ चतुष्पादव्यवहारान्तर्गतशेषपादः । फय्सला इति आरवीयभाषा ॥ डिक्री इति इङ्गरेजीयभाषा ॥ तद्बिवरणं यथा । “अथ निर्णयः । तत्र नारदः । यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्धथावादिनो यस्य ध्रुवस्तस्य पराजयः ॥ स्वयमभ्युपपन्नोऽपि स्वचर्य्यावसितोऽपि सन् । क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ॥ सभ्यैरवधृतः पश्चात् राज्ञा शास्यः स शास्त्रतः ॥’ यस्य वादिनः प्रतिवादिनो वा साक्षिण इत्युप- लक्षणम् । साक्षिलिखितभुक्तिशपथानां मध्ये- ऽन्यतमप्रमाणं यस्य प्रतिज्ञायाः सत्यत्वप्रति- पादकं स एव जयी अन्यथा पराजित इति प्रत्येतव्यम् । स्वयमभ्युपपन्नः आत्मनैवाङ्गीकृत- स्वपराजयः । स्वचर्य्यावसितः कम्पस्वेदवैवर्ण्या- दिना पराजितत्वेनावधृतः । क्रियावसन्नः साक्षादिना प्राप्तपराजयः । परमनन्तरम् । सभ्यावधारणं सभासदां मिलितानामयं परा- जितः इति निर्णयं अर्हेत । स शास्त्रविधिना शास्यः ॥ * ॥ निर्णयस्य फलमाह बृहस्पतिः । ‘प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् । जयपत्रस्य चादानात् जयी लोके निगद्यते ॥’ जयपत्रस्य लेखनप्रकारमाह स एव । ‘यद्वृत्तं व्यवहारेषु पूर्ब्बपक्षोत्तरादिकम् । क्रियावधारणोपेतं जयपत्रेऽखिलं लिखेत् ॥ पूर्ब्बोत्तरक्रियायुक्तं निर्णयान्तं यदा नृपः । प्रदद्याज्जयिने पत्रं जयप्रत्रं तदुप्यते ॥’ कात्यायनः । ‘अर्थिप्रत्यर्थिवाक्यानि प्रतिसाक्षिवचस्तथा । निर्णयश्च तथा तस्य यथा चावधृतं स्वयम् ॥ एतद्यथाक्षरं लेख्यं यथापूर्ब्बं निवेशयेत् । सभासदश्च ये तत्र घर्म्मशास्त्रविदस्तथा ॥’ तवश्च भारोत्तरे क्रिया च पत्रसाक्षादिकं निर्णयो जयपराजयावधारणं निर्णयकालाव- स्थितमध्यस्थाश्च इत्यादिकं सर्व्वं लेखनीयं निरू- पणस्य सन्यक्त्वप्रदर्शनार्थम् । तथाहि भाषो- त्रलेस्वनं हेत्वन्तरेण पुनर्न्यायप्रत्यवस्थान- निषेधार्थम् । बहि न गृहीतमिति मिथ्योत्तरेण पराजितस्य पुनः परिशोधितं मयेति प्रत्यव- स्थानं सम्भवति । प्रमाणलेखनन्तु पुनः प्रमाणा- ज्ञानम् । यथा । वह्निमान् पर्व्वत इत्यादि- बोधः । इति भाषापरिच्छेदः ॥ तद्धर्म्मावच्छिन्न- प्रकारत्वान्यप्रकारत्वानिरूपितपक्षतावच्छेदका- वच्छिन्नविशेष्यताशालिज्ञानम् । इति जग- दीशः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्णयः [nirṇayḥ] निर्णीत [nirṇīta] निर्णेतृ [nirṇētṛ], निर्णीत निर्णेतृ &e. See under निर्णी.
निर्णयः [nirṇayḥ], 1 Removing, removal.
Complete ascertainment, decision, affirmation, determination, settlement; संदेहनिर्णयो जातः Ś.1.27; Ms.8.31,49;9.25; Y.2.1; हृदयं निर्णयमेव धावति Ki.2.29.
Deduction, inference, conclusion, demonstration (in logic).
Discussion, investigation, consideration
Sentence, verdict, judgment; बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये Mb. 3.292.2; सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय M.1.
Application of a conclusive argument.
(In Rhet.) Narration of events. -Comp. -उपमा a. comparison based upon an inference; Kāv.2.27. -पादः a sentence, decree, verdict (in law).
