निर्णीतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्णीतम्, त्रि, (निर् + नी + क्तः ।) कृतनिर्णयः । निश्चयीकृतः । यथा, -- “निर्णीते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्ब्बमावेदितं न चेत् ॥ यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णीतव्यवहाराणां प्रमाणमफलं तथा ॥” इति व्यवहारतत्त्वम् ॥ तद्वैदिकपर्य्यायः । “निण्यम् १ सस्वः २ सनुतः ३ हिरुक् ४ प्रतीच्यम् ५ अपीच्यम् ६ । इति षनिनर्णीतान्तर्हितनामधेयानि ।” इति वेद- निघण्टौ । ३ । २५ ॥
