निर्द्दयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्द्दयः, त्रि, (निर्गता दया यस्मात् ।) दयाशून्यः । इति जटाधरः ॥ (यथा, रघुः । ११ । ८४ । “न प्रहर्त्तुमलमस्मि निर्द्दयं विप्र इत्यभिभवत्यपि त्वयि ॥” निर्गता दया यस्म यमुद्दिश्य दया तिरोहिता इत्यर्थः । अदयाहः । यथा, मनुः । ९ । २३९ । “ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतल क्षणाः । निर्द्दया बिन्नेमस्कारास्तन्मनोरनुशासनम् ॥”)
