निर्द्देश
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्द्देशः, पुं, (निर् + दिश + भावे घञ् ।) आज्ञा । इत्यमरः । २ । ८ । १५ ॥ (यथा, भागवते । ६ । १ । ३८ ॥ “यूयं वै धर्म्मराजस्य यदि निर्द्देशकारिणः । ब्रूत धर्म्मस्य नस्तत्त्वं यच्च धर्म्मस्य लक्षणम् ॥”) कथनम् । (यथा, गीतायाम् । १७ । २३ । “ओ~ तत्सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः ॥”) उपान्तः । इति मेदिनी । शे, २३ ॥
