निर्द्धारण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्द्धारण¦ न॰ निर् + धृ--णिच्--ल्युट्।
१ निश्चये जातिगुणक्रि-[Page4096-b+ 38] याभिः समुदायादेकदेशस्य
२ पृथक्करणे
“यतश्च निर्द्धार-चम्” पा॰ तदर्थे षष्ठी सप्तमी च भवति। तत्स्वरूपा-न्वयादिकं शब्दश॰ प्र॰ उक्तं यथा(
“विशेषस्य स्वेतरसामान्यव्यावृत्तधर्मवत्त्वं निर्धारणंतच्च समुदितं न षष्ठ्यर्थः सामान्यतन्निष्ठधर्मयोः स्वपदो-पात्तत्वात्। किन्तु विशेषान्यत्वं व्यावृत्तं च। विशेषस्तत्स-मभिव्याहृतक्षत्रियादिर्विशेष्य ग्राह्यः। व्यावृत्तत्वञ्च भेद-प्रतियोगित्वं तथा च नराणां क्षत्रियः शूरतम इत्यत्रक्षत्रियस्य नरविशेषतया षष्ठ्यर्थेन क्षत्रियान्यत्वेन विशि-ष्टस्य तत्प्रकृत्यर्थस्य नरस्य तादृशनरत्वावच्छिन्नाधेयत्व-संसर्गेण भेदेऽन्वयलब्धस्य क्षत्रियान्यनरत्वावच्छिन्नवृत्तिक-भेदप्रतियोगित्वस्य शूरतमे शूरतमस्य च क्षत्रिये तादा-त्म्येनान्वय इति क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रति-योगित्ववच्छूरतमाभिन्नः क्षत्रिय इत्याकारकस्तत्र बोधः। क्षत्रियान्यनरस्याघेयतामात्रेण भेदेऽन्वये नराणां क्षत्रियःसुन्दर इत्यपि प्रयोगापत्तेः क्षत्रियान्यकुरूपनरनिष्ठभेद-प्रतियोगित्वस्य सुन्दरे सत्त्वात्। एवञ्च नरत्वातच्छिन्न-वृत्तिकभेदप्रतियोगित्वस्य शूरतमे बाधादुक्तवाक्यस्यायोग्य-तापत्तिरतः षष्ठ्यर्थेन क्षत्रियान्यत्वेन तत्प्रकृत्यर्थो नरोविशेषितः। नच घटानां क्षत्रियः शूर इत्यपि स्यात्क्षत्रियान्यघटत्वावच्छेदेन शूरभेदस्य सत्त्वादिति वाच्यंराहोः शिर इत्यादाविव प्रकृते क्षत्रियान्वयिनः स्वप्रकृ-त्यर्थतादात्म्यस्य षष्ठ्या बोध्यत्वात्। न च सङ्ख्यान्यसु-वर्थस्य प्रकृत्यर्थविशेष्यत्वनियमात् क्षत्रियान्यत्वरूपस्य षष्ठ्य-र्थस्य प्रकृत्यर्थनरे प्रकारत्वायोग इति वाच्यं सम्बोध्य-त्वादौ व्यभिचारेण तादृशव्याप्तेः प्रायिकत्वस्य प्रागुक्त-त्वात्। न च नराणां क्षत्रियो द्रव्यमित्यपि स्यात्क्षत्रियान्यनरत्वावच्छेदेन द्वित्वाद्यवच्छिन्नद्रव्यप्रतियोगि-ताकभेदसत्त्वादिति वाच्यं द्रव्यत्वादिविशिष्टे धर्मिणिद्रव्यत्वाद्यवच्छिन्नस्यैव भेदप्रतियोगित्वस्य बोधने निर्द्धारणषष्ठ्याः तमर्थत्वात्। यद्यपि भेदः प्रतियोगित्वञ्च द्वयमेवनिर्द्धारणषष्ठ्यथः चत्रियशब्देनैवोपस्थापितस्य क्षत्रियस्यषष्ठ्यर्थभेदे तस्य च नरे नरस्य च पुनर्भेदे पुनर्भेदस्य प्रति-योगित्वेऽन्वयादेव क्षत्रियान्यनरत्वावच्छिन्नवृत्तिकभेदप्रति-योनित्वस्य शूरतमऽन्वयसम्भवः। तथापि क्षत्रियादि-नामोपस्थाप्यस्य क्षत्रियादेस्तादृशनामोत्तरविभक्त्यर्थ एवभेदान्वयस्य व्युत्पन्नत्वात् नरपदोत्तरषष्ठ्यर्थे तदन्व-यासम्भवात् क्षत्रियान्यत्वं विशिष्टमेव षष्ठ्यर्थो नत्व-[Page4097-a+ 38] न्यतामात्रम् न च नरस्य क्षत्रियः शूर इत्यपि स्यात्पाणिपादस्य पाणिः पवित्र इत्यत्रेवान्यत्रापि एकवचनस्यनिर्द्धारणार्थकत्वे क्षत्यभावात्। अतएव द्वन्द्वः सामासिकस्यचेति गीतापि सङ्गच्छते। एकवचनभिन्नयोरेव षष्ठीसप्तम्यो-रुक्तनिर्द्धारणबोधकत्वव्युत्पत्तिस्वीकाराद्वा। ननु पाथःपृथिव्योजल स्नेहवदित्यादौ जलभिन्नयोः पाथःपृथिव्योरप्रसिद्ध्या पाथःपृथिव्युभयवृत्तिभेदप्रतियोगित्वस्यस्नेहवति बाधेन च जलान्यपाथःपृथिव्युभयत्वावच्छिन्न-वृत्तिकभेदप्रतियोगिनः स्नेहवतो वोधासम्भवः। न चद्विपदद्वन्द्वोत्तरनिर्द्धारणषष्ठ्या अन्यतरवृत्तिभेदप्रयोगि-त्वमेवार्थः तन्निविष्टे चान्यतरस्मिन्नेकपदोपात्तत्वेन जला-न्यत्वादेः षष्ठार्थान्तरस्यान्वयः तथाच जलान्यो यः पाथपृथिव्योरन्यतरस्तन्निष्ठस्य भेदस्य प्रतियोगित्वं स्नेहवतिवर्त्तत एवेति वाच्यं तावतापि पाथःपृथिव्युभयतादा-त्म्यस्य जले बाधादुक्तवाक्यस्यायोम्यतातादवस्थ्यात् पाथः-पृथिव्योस्तेज उष्णमित्याद्यप्रयोगेन निर्द्धारणषष्ठ्यास्तादा-त्म्यवाचिताध्रौव्यात् घटतद्भिन्नयोर्घटः कम्बुग्रीवादि-मानित्यादौ घटतद्भिन्नान्यतरत्वाप्रसिद्ध्या तादृशान्य-तरवृत्तिभेदस्य बोधयितुमशक्यत्वाच्चेति चेन्न द्वन्द्वोत्तरनिर्द्धारणषष्ठ्याः पर्य्याप्तसंख्यायामपि शक्तत्वेन तस्मिन्नेवैकपदोपात्तत्वेन षष्ठ्यर्थस्य जलाद्यन्यत्वरूपनिर्द्धार्य्य-भेदस्यान्वयेन सर्वसामञ्जस्यात्। पाथःपृथिव्योर्जलं स्नेह-वदित्यादौ जलभिन्नो यः पाथःपृथिवीपर्य्याप्तसंख्याश्रय-स्तत्त्वावच्छिन्नवृत्तिकभेदप्रतियोगिसस्नेहाभिन्नं पाथःपृथिवीपर्य्याप्तसख्याश्रयो जलमित्यन्वये वाधकभावात्। पटघटमठानां घटः कम्बुग्रीवादिमानित्यादावप्युक्तरीत्यैबान्वयधीः। इदन्तु बोध्यं यत्रोद्देश्यविधेययोस्तादात्म्ये-नान्वयबोधसामग्री तत्रैव नि{??}रणषष्ठ्या भेदपतियोगि-त्वमर्थः यत्र तु सम्बन्धान्तरेण, तत्रात्यन्ताभावप्रतियोगि-त्वमतो नराणां क्षत्रिये शौर्य्यमित्यादौ क्षत्रियान्यनरत्वा-वच्छिन्नवृत्तिकस्यात्यन्त्यभावस्यैव प्रतियोगित्वं शौर्य्यादौप्रतीयते न तु तादृशभेदस्य नराणां क्षत्रिये रू{??}मित्यपिप्रयोगापत्तेः। नरणां मध्ये क्षत्रियः शूर इत्यादौ तुनिर्द्धारणवाचिनो मध्ये इत्यव्ययस्य तदर्थकषष्ठ्या सहसम्भेदे देहे चैत्र इत्यादाविव नान्यतरवैयर्थ्यम्। नरेषुक्षत्रियः शूर इत्यादौ निर्द्धारणसप्तमीस्थलेऽप्युक्तदि-शैवान्वयो द्रष्टव्यः। यत्तु नराणां क्षत्रिय, शूरतमइत्याद्रौ राहोः शिर इत्यत्रेवाभेदएव षष्ठ्यर्थस्तादात्म्यं[Page4097-b+ 38] वा तथा च नराभिन्नक्षत्रियत्वाच्छेदेन शूरतमम्याभेदस्तत्रवाक्यार्थस्तेन नराणां क्षत्रियोऽर्जुन इत्यादिकोन प्रयोमःनरभिन्नक्षत्रियत्वावच्छेदेनार्ज्जुनाभेदस्यासत्त्वात् न वानराणां वानरः पशुरित्यादिकः” कीशे पश्वभेदसत्त्वेऽपिमानुषाभेदस्य विरहादिति तत्तुच्छं नराणां क्षत्रियःप्राणी क्षत्रियाणां नरः शूरैत्यादिबाक्यस्य दुर्वार-तापत्तेः। केचित्तु नराणां क्षत्रियः शूर इत्यादौ क्षत्रि-यान्यो नरः शूरभिन्नो नराभि{??}ः क्षत्रियश्च शूरैत्ये-वमन्वयितावच्छेदकधर्मावच्छेदेन धियमुरीकुर्वन् भेदमभेदञ्चनिर्द्धारणवाचिषष्ठीसप्तम्योरर्थमाहुस्तच्चिन्त्यं नामार्थमुख्य-विशेषकान्वयबोधे नाम्नः प्रथमान्तत्वापेक्षायाः परित्यागा-पत्तेः स्वप्रकृत्यर्थाबच्छिन्नस्यैव संख्यान्यसुबर्थस्य शब्दान्त-रार्थेन सहान्वयस्य व्युत्पन्नत्वेन षष्ठ्यर्थे केवलभेदे शूरादेरन्वयायोगाच्चेत्यास्तां विस्तरः”।
“पञ्चमी विभक्ते” पा॰ यत्रनिर्द्धार्य्यमाणस्य भेदएव प्रतीयते तत्र पञ्चमी स्यात् सि-कौ॰ पञ्चम्यास्तु भेदएवाथः यथा माथुरा पाटलिपुत्रेभ्यआढ्यतर इति
“यतश्च निर्द्धारणमित्यनुवर्त्तते विभागोऽत्रभेदः तत्र निर्द्धारणे सर्वत्र यथा कथञ्चित् भेदस्य सत्त्वे-ऽपि विभक्तग्रहणसामर्थ्यात् यत्र भेद एव न तु केना-प्युपाध्यादिरूपेणाभेदस्तत्रैवास्याः प्रवृत्तिरित्याह भेदए-वेति न तु शब्दान्तरोपात्ते सामान्याक्रान्ततेति भावः। अत्र पञ्चम्यर्थो निर्द्धारणविषयरूपएव तत्र च अवधिमत्त्व-सम्बन्धन पाटलिपुत्रस्यान्वयः तेन पाटलिपुत्रावधिकनि-र्द्धारणविषया माथुरा आढ्यतरा इति बोधः। न ह्यत्रनिर्द्धा णाबधेर्निर्द्धार्य्यमाणस्य च गोषु कृष्णेत्यादाविवसामान्यविशेषभावोऽस्ति प्रत्युत शब्दोपात्तयोधर्मयोर्वि-रोध एव” मनोरमा।
