निर्धौतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्धौतम्, त्रि, (निर् + धाव + कर्म्मणि क्तः । “च्छ्वोः शूडनुनासिके च ।” ६ । ४ । १९ । इति वकारस्योठादेशः । “एत्येधत्यूठ्सु ।” ६ । १ । ८९ । इति वृद्धिः ।) प्रक्षालितम् । यथा, -- “तस्याः पाटलपाणिजाङ्कितमुरोनिद्राकषाये दृशौ निर्धौतोऽधरशोणिमा विलुलितस्रस्तसृजो मूर्द्धजाः ॥” इति श्रीजयदेवः ॥
