निर्भयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्भयः, त्रि, (निर्गतं भयं यस्य यस्माद्बा ।) भय- रहितः । तत्पर्य्यायः । अजानेयः २ । इति त्रिकाण्डशेषः ॥ (यथा, हरिवंशे । ८३ । ११ । “रजकः स तु तौ प्राह युवां कस्य वनेचरौ । राज्ञो वासांसि यौ मौढ्याद्याचेते निर्भया- वुभौ ॥” पुं, रौच्यमनुपुत्त्रे । यथा, हरिवंशे । ७ । ८३ । “सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥”)
