निर्मुक्तः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्मुक्तः, पुं, (निर् + मुच् + क्तः ।) मुक्तकञ्चुकः । अचिरात् त्यक्तत्वक् सर्पः । इत्यमरः । १ । ८ । ६ ॥ त्यक्तसंयोगे, त्रि । इति मेदिनी । ते, ११७ ॥ (यथा, देवीभागवते । ३ । ८ । २० । “रागद्वेषान्न निर्म्मुक्तः कामक्रोधसमावृतः । पुनरेव गृहं प्राप्तो यथा पूर्ब्बं तथा स्थितः ॥”)
