सामग्री पर जाएँ

निर्म्माल्यम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निर्म्माल्यम्, क्ली, (निर् + मल + ण्यत् ।) देवो- च्छिष्टद्रव्यम् । देवस्वत्वनिवृत्तिविशिष्टं देवदत्तं वस्तु । यथा, -- “अर्व्वाक् विसर्ज्जनाद्द्रव्यं नैवेद्यं सर्व्वमुच्यते । विसर्ज्जिते जगन्नाथे निर्म्माल्पं भवति क्षणात् ॥” इति गरुडपुराणम् ॥ * ॥ तस्य स्थापनं क्षेपणञ्च यथा । “ऐशान्यां मण्डलं कृत्वा निर्म्माल्यशेषं दद्यादिति । वैष्णवे तु ओ~ विश्वक्सेनाय नमः । शक्तौ तु ओ~शेषिकायै नमः । शिवे ओ~चण्डेश्वराय नमः । सूर्य्ये ओ~ तेजश्चण्डाय नमः । गणेशे ओ~उच्छिष्टगणेशाय नमः । कालिकादौ ओ~उच्छिष्टचाण्डालिन्यै नमः । तथा च विद्यानन्दनिबन्धे । ‘सूर्य्ये गणपतावुग्रे शाक्ते शैवेऽथ वैष्णवे । तेजश्चण्डमथोच्छिष्टसोजमुच्छिष्टपूर्ब्बिकाम् ॥ चाण्डालीं शेषिकां चण्डं विश्वक्सेनं क्रमाद्- यजेत् ॥’ सोजो गणेशः । ‘हृदये च बहिर्देवीं समर्प्य विधिवत्ततः । निर्म्माल्यञ्च शुचौ देशे नैवेद्यं भक्षयेत् सुधीः ॥’ तन्त्रान्तरे । निर्म्माल्यं शिरसा धार्य्यं सर्व्वाङ्गे चानुलेपनम् । नैवेद्यञ्चोपभुञ्जीत दत्त्वा तद्भक्तशालिने ॥” इति तन्त्रसारः ॥ * ॥ “उदके तरुमूले वा निर्म्माल्यं तत्र संत्यजेत् ॥” इति कालिकापुराणे ५५ अध्यायः ॥ निर्म्माल्यकालो यथा, -- “मणिमुक्तासुवर्णानां देवदत्तानि यानि च । न निर्म्माल्यं द्बादशाब्दं ताम्रपात्रं तथैव च ॥ पटी शाटी च षण्मासं नैवेद्यं दत्तमात्रतः । मोदकं कृशरञ्चैव यामार्द्धेन महेश्वरि ! ॥ पट्टवस्त्रं त्रिमासञ्च यज्ञसूत्रन्त्वहः स्मृतम् यावदन्नं भवेदुष्णं परमान्नन्तथैव च ॥” इत्येकादशीतत्त्वे योगिनीतन्त्रम् ॥ शिवनिर्म्माल्ये विशेषो यथा, स्कान्दे । “निर्म्माल्यं यो हि मे भक्त्या शिरसा धारयिष्यति । अशुचिर्भिन्नमर्य्यादो नरः पापसमन्वितः । नरके पच्यते घोरे तिर्य्यग्योनौ च जायते ॥ ब्रह्महापि शुचिर्भूत्वा निर्म्माल्यं यस्तु धारयेत् । तस्य पापं महच्छ्रीघ्रं नाशयिष्ये महाव्रते ! ॥ शुचिः स्नानादिनेति शेषः । एवञ्च स्पृष्ट्वा रुद्रस्य निर्म्माल्यं सवासा आप्लुतः शुचिरिति कालिकापुराणं अशुचिविषयम् ॥ अनुपनीत- विषयमिति श्रीदत्तः । बह्वृचगृह्यपरिशिष्टम् । अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् । शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥” इति तिथितत्त्वम् ॥ तस्य उत्तारणकालो यथा, -- अथ निर्म्माल्योत्तारणम् । अत्रिस्मृतौ । “प्रातःकाले सदा कुर्य्यान्निर्म्माल्योत्तारणं बुधः । तृषिताः पशवो बद्धाः कन्यका च रजस्वला ॥ देवता च सनिर्म्माल्या हन्ति पुण्यं पुराकृतम् ॥ नारसिंहे श्रीयमोक्तौ । देवमाल्यापनयनं देवागारे समूहनम् । स्नापनं सर्व्वदेवानां गोप्रदानसमं स्मृतम् ॥ नारदपञ्चरात्रे । यः प्रातरुत्थाय विधाय नित्यं निर्म्माल्यमीशस्य निराकरोति । न तस्य दुःखं न दरिद्रता च नाकालमृत्युर्न च रोगमात्रम् ॥ अरुणोदयवेलायां निर्म्माल्यं शल्यतां व्रजेत् । प्रातस्तु स्यान्महाशल्यं घटिकामात्रयोगतः ॥ अतिशल्यं विजानीयात्ततो वज्रप्रहारवत् । अरुणोदयवेलायां शल्यं तत् क्षमते हरिः ॥ घटिकायामतिक्रान्तौ क्षुद्रं पातकमावहेत् । मुहूर्त्ते समतिक्रान्ते पूर्णं पातकमुच्यते ॥ अतिपातकमेव स्यात् घटिकानां चतुष्टये । मुहूर्त्तत्रितये पूर्णे महापातकमुच्यते ॥ ततः परं ब्रह्मवधो महापातकपञ्चकम् । प्रहरे पूर्णतां याते प्रायश्चित्तं ततो न हि ॥ निर्म्माल्यस्य विलम्बे तु प्रायश्चित्तमथोच्यते । अतिक्रान्ते मुहूर्त्तार्द्धे सहस्रं जपमाचरेत् ॥ पूर्णे मुहूर्त्ते सञ्जाते सहस्रं सार्द्धमुच्यते ॥ सहस्रद्वितयं कुर्य्यात् घटिकानां चतुष्टये । मुहूर्त्तत्रितयेऽतीते अयुतं जपमाचरेत् ॥ प्रहरे पूर्णतां याते पुरश्चरणमुच्यते । प्रहरे समतिक्रान्ते प्रायश्चित्तं न विद्यते ॥” इति श्रीहरिभक्तिविलासे ३ विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=निर्म्माल्यम्&oldid=144801" इत्यस्माद् प्रतिप्राप्तम्