निर्म्मोक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्म्मोकः, पुं, (नितरां मुच्यते इति । निर् + मुच् + घञ् ।) सर्पत्वक् । तत्पर्य्यायः । अहि- कोषः २ निर्ल्व यनी ३ कञ्चुकः ४ । इति हेम- चन्द्रः । ४ । ३८१ ॥ (यथा, आर्य्यासप्त- शत्याम् । ३२८ । “निजगात्रनिर्व्विशेषस्थापितमपि सारमखिल- मादाय । निर्म्मोकञ्च भुजङ्गी मुञ्चति पुरुषञ्च वारवधूः ॥” त्वक्मात्रम् । यथा, महाभारते । १३ । १४१ । १०१ । “मृगनिर्म्मोकवसनाश्चीरवल्कलवाससः । निर्द्वन्द्वाः सत्पथं प्राप्ता वालिखिल्यास्तपोधनाः ॥” भावे घञ् ।) मोचनम् । आकाशः । सन्नाहः । इति मेदिनी । के, १११ ॥ (सावर्णिमनोः पुत्त्रविशेषः । यथा, भागवते । ८ । १३ । ११ । “अष्टमेऽन्तर आयाते सावर्णिर्भविता मनुः । निर्म्मोकविरजस्काद्याः सावर्णितनया नृप ! ॥”)
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्म्मोक¦ m. (-कः)
1. The slough of a snake.
2. Liberating, setting loose or free.
3. Armour, mail.
4. Sky, heaven, atmosphere. E. निर् forth, मुच् to let loose, affix घञ्।
