निर्विचार
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्विचार¦ त्रि॰ निर्गतो विचारो यतः प्रा॰ ब॰।
१ विचार-रहिते
“रे रे स्वैरिणि! निर्विचारकविते! भास्मत्प्रकाशीभव” चन्द्रालो॰। पात॰ सूत्रोक्ते सूक्ष्मविषयकेसमापत्तिरूपे
३ समाधिभेदे च
“एतयैव सविचारानिर्विचारा च सूक्ष्मविषया व्याख्याता” पात॰ सू॰।
“तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्म्मकेषु देशकालनिमित्ता-नुभबावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते। तत्राप्येकबुद्धिनिर्ग्राह्यमेवोदितधर्म्मविशिष्टं भूतसूक्ष्म-मालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते। या पुनःसर्वथा सर्वतः शान्तोदिताव्यपदेश्यधर्म्मानवच्छिन्नेष[Page4104-a+ 38] सर्वधर्म्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्वि-चारेत्युच्यते एवं स्वरूपं हि तत् भूतसूक्ष्मम् एतेनैवस्वरूपेणालम्बनीभूतमेव समाधिप्रज्ञास्वरूपमुपरञ्जयति। प्रज्ञा च स्वरूपशून्येव अर्थमात्रा यदा भवति तदा नि-र्विचारेत्युच्यते। तत्र महावस्तुविषया सवितर्का, निर्वि-तर्का च सूक्ष्मविषया सविचारा निर्विचारा च एवमु-भयोरेतयैव निर्वितर्काया विकल्पहानिर्व्याख्यातेति” भा॰
“निर्विचारवैशारद्ये अध्यात्मप्रसादः” सू॰।
“अशु-द्ध्यावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्वस्य रजस्तमो-भ्यामनभिभूतः स्वच्छः स्थितिप्रवाहो वैशारद्यं यदानिर्विचारस्य समार्धेर्वैशारद्यमिदं जायते तदा योगिनोभवति अध्यात्मप्रसादः भूतार्थविषयः क्रमाननुरोधीस्फुटप्रज्ञालोकः। तथाचोक्तं
“प्रज्ञापासादमारुह्य अ-शोच्य। शोचतो जनान्। भूमिष्ठानिव शैलस्थः सर्वान्प्राज्ञोऽनुपश्यति” भाष्यम्।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्विचार/ निर्--विचार mf( आ)n. not needing any consideration Yogas.
निर्विचार/ निर्--विचार mf( आ)n. not reflecting or considering Ra1jat.
