निर्वीज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्वीज¦ त्रि॰ निर्गतं वीजमस्य।
१ वीजशून्ये
२ कारण-रहिते पात॰ उक्ते
३ समाधिभेदे पु॰। (
“तस्यापि निरोधे सर्वनिरोधान्निर्वीजः समाधिः” पात॰ सु॰
“स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञा-कृतानां संस्काराणामपि प्रतिबन्धा भवति। कस्मात्!निरोघजः संस्कारः ससाधिजान् संस्कारान् बाधते इतिनिरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारा॰स्तित्वमनुमेयम्, व्युत्थाननिरोधसमाधिप्रभवैः सहकैवल्यभागीयैः संस्कारैश्चित्तं स्वस्यां प्रकृताववस्थितायांप्रविलीयते तस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो नस्थितिहेतवो भवन्तीति यस्मादवसिताधिकारं सह कैव-ल्यभागीयैः संस्कारैश्चित्तं विनिवर्त्तते तस्मिन्निवृत्ते पुरुषःस्वरूपप्रतिष्ठः। अतः शुद्धो मुक्त इत्युच्यते” भा॰
“तस्यापिनिरोधे सर्वनिरोधात् निर्वीजः समाधिः। परेण वैरा-ग्येण ज्ञानप्रसादमात्रलक्षणेन सर्वसंस्कारोपजननद्वारातस्यापि प्रज्ञाकृतस्य संस्कारस्य निरोधे न केवलं प्रज्ञायाइत्यपिशब्दार्थः सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्यनिरोधात् कारणाभावेन कार्य्यानुत्पादनात् सोऽयं नि-र्वीजः समाधिः। व्याचष्टे स निर्वीजः समाधिः स-माधिप्रज्ञाविरोधिनः परस्मात् वैराग्यात् उपजायमान-संस्कारद्वारेण न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृता-[Page4105-a+ 38] नामप्यसौ संस्काराणां परिपन्थी भवति। ननु वैराग्यजंविज्ञानं सदविज्ञानं प्रज्ञामात्रं बाधतां संस्कारन्त्वविज्ञानंकथं बाधते दृष्टा हि स्वप्नदृष्टार्थस्मृतिरित्याशयवान्पृच्छति। कस्मादिति उत्तरं निरोधज इति निरुध्यते-ऽनेन प्रज्ञेति निरोधः परं वैराग्यं ततो जातो निरो-धजः संस्कारः, संस्कारादेव दीर्घकालनैरन्तर्य्यसत्कारा-सेवितपरवैराग्यजन्मनः प्रज्ञासंस्कारवाधो नतु विज्ञाना-दित्यर्थः। स्यादेतन्निरोधजसंस्कारसद्भावे किं प्रमाणं सहि प्रत्यक्षेण नानुभूयते स्मृत्या वा कार्य्येणानुमीयेत नच सर्ववृत्तिमात्रनिरोधे प्रत्यक्षमस्ति योगिनः, नापि स्मृतिःतस्य वृत्तिमात्रनिरोधितया स्मृतिजनकत्वासम्भवादित्यतआह निरोधेति। निरोधे स्थितिः चित्तस्य निरुद्गा-वस्थेत्यर्थः। तस्याः कालक्रमो मुहूर्त्तार्द्धयामयामाहो-रात्रादिस्तदनुभवेन। एतदुक्तं भवति वैराग्याभ्यासप्रक-र्षानुरोधी निरोधप्रकर्षो मुहूर्त्तार्द्धयामादिव्यापितयानुभूयते योगिना, न च वैराग्यक्षणाक्रमनियततया परस्प-रमसम्भवन्तस्तत्तत्कालव्यापितया सातिशयं निरोधं कर्त्तु-मीशत इति तत्तद्वैराग्यक्षणप्रचयजन्यः स्थायी संस्कारःप्रचयएषितव्य इति भावः। ननु छिद्यन्तां प्रज्ञासंस्काराः,निरोधसंस्कारास्तु कुतः समुच्छिद्यन्ते अनुच्छेदे वा साधि-कारत्वमेव इत्यत आह व्युत्थानेति। व्युत्थानञ्चतस्य निरोधसमाधिश्च सम्प्रज्ञातः तत्प्रभवाः संस्काराःकैवल्यभागीया निरोधजाः संस्कारा इत्यर्थः। व्युत्था-नप्रज्ञासंस्काराश्चित्ते प्रलीना इति भवति चित्ते व्युत्थानप्रज्ञासंस्कारवत्, निरोधसंस्कारस्तु प्रत्युदित एवास्तेचित्ते। निरोधसंस्कारे सत्यपि चित्तमनधिकारवत्,पुरुषार्थजनकं हि चित्तं साधिकारं शब्दाद्युपभोग-विवेकख्याती च पुरुषार्थौ संस्कारशेषतायां तु न बुद्धेःप्रतिसंवेदी पुरुष इति नासौ पुरुषार्था विदेहप्रकृतिल-यानां न निरोधभागितया साधिकारं चित्तम् अपि तुक्लेशवासितमेत्याशयबानाह यस्मादिति। शेषं सुगमम्” विव॰।
२ काकलीद्राक्षायां स्त्री राजनि॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्वीज/ निर्--वीज See. -बीज.
