निर्वृतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्वृतिः, स्त्री, (निर् + वृ + क्तिन् ।) सुस्थितिः । अस्तङ्गमनम् । सुखम् । इति मेदिनी । ते, १२० ॥ (यथा, देवीभागवते । १ । १९ । ३९ । “जनकस्य दशां दृष्ट्वा राज्यस्थस्य महात्मनः । स निर्वृतिं परां प्राप्य पितुराश्रमसंस्थितः ॥”) मोक्षः । मृत्युः । इति हेमचन्द्रः । १ । ७५ ॥ (शान्तिः । यथा, सुश्रुते । १ । ४१ । “भूतेजोवारिजैर्द्रव्यैः शमं याति समीरणः । भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोति निर्वृतिम् ॥” विदर्भवंशीयवृष्णेः पुत्त्रे, पुं । यथा, भागवते । ९ । २४ । ३ । “क्रथस्य कुन्तिः पुत्त्रोऽभूत् वृष्णिस्तस्याथ निर्वृतिः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्वृतिः [nirvṛtiḥ], f.
Satisfaction, happiness, pleasure, bliss; व्रजति निर्वृतिमेकपदे मनः V.2.9; R.9.38;12.65; Ś.7.19; Śi.4.64;1.28; Ki.3.8.
Tranquillity, rest, repose; न जातु बाला लभते स्म निर्वृतिं तुषारसंघातशिलातलेष्वपि Ku.5.55; Pt.1.21.
Final emancipation or liberation from worldly existence; द्वारं निर्वृतिसद्मनो विजयते कृष्णेति वर्णद्वयम् Bv.4.14.
Completion, accomplishment,
Freedom.
Disappearance; death, destruction.
