निर्व्वपण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्व्वपणम्, क्ली, (निर् + वप + भावे ल्युट् ।) दानम् । इत्यमरः । २ । ७ । ३० ॥ (यथा, मनुः । ३ । २४८ । “अनयैवावृता कार्य्यं पिण्डनिर्व्वपणं सुतैः ॥” पिण्डदानम् । यथा, तत्रैव । ३ । २६० । “एवं निर्व्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् । गां विप्रमजमग्निं वा प्राशयेसु वा क्षिपेत् ॥” यथा च गोः रामायणे । ६ । १०८ । ४२ । “एषा मन्दाकिनी पुण्या नदी सुविमलोदका । पितुर्निर्व्वपणं यत्र मया मूलफलैः कृतम् ॥” पिण्डः । यथा, महाभारते । १३ । ८४ । १४ । “तत् समाप्य यथोद्दिष्टं पूर्ब्बकर्म्म समाहितः । दातुं निर्व्वपणं सम्यक् यथावदहमारभम् ॥” अन्नादिसंविभागः । इति श्रीधरस्वामी ॥ यथा, भागवते । ५ । १२ । १२ । “रहूगणैतत् तपसा न याति न चेज्यया निर्व्वपणाद् गृहाद् वा ॥”)
