सामग्री पर जाएँ

निर्व्वहण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निर्व्वहणम्, क्ली स्त्री, (निर् + वह + भावे ल्युट् ।) निष्ठा । इत्यमरः । १ । ७ । १५ ॥ तत्तु प्रक्रान्ता- भिनयनिर्व्वाहः । किंवा नाटके पञ्च सन्धयो भवन्ति । यथा, -- “मुख प्रतिमुखञ्चैव गर्भो विमर्ष एव च । तथा निर्व्वहणञ्चेति नाटके पञ्च सन्धयः ॥” तत्र पञ्चमस्य सन्धेः संज्ञाद्वयमिदम् । इति भरतः ॥ मुकुटस्त्वाह द्बे पञ्चमसन्धिसमाप्तौ । प्रस्तुतकथासमाप्ताविति यावत् । यथैतदनुवृत्तौ शब्दार्णवः । निर्व्वहणन्तु निष्ठा स्त्री संहारश्च समापने । प्रक्रान्तकथानिर्व्वाहः । इति मधु- माधवादयः ॥

"https://sa.wiktionary.org/w/index.php?title=निर्व्वहण&oldid=144845" इत्यस्माद् प्रतिप्राप्तम्