निर्व्वाण
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्व्वाणम्, क्ली, (निर् + वा गमने + क्तः । तस्य नः ।) अस्तगमनम् । निर्वृतिः । गजमज्जनम् । (यथा, रघुः । १ । ७१ । “असह्यपीडं भगवन्नृणमन्त्यमवेहि मे । अरुन्तुदमिवालानमनिर्व्वाणस्य दन्तिनः ॥”) सङ्गमः । अपवर्गः । इति मेदिनी । णे, ५८ ॥ (यथा, भागवते । ३ । २८ । ३५ । “मुक्ताश्रयं यर्हि निर्व्विषयं विरक्तं निर्व्वाणमृच्छति मनः सहसा यथार्च्चिः ॥”) विश्रान्तिः । इति हेमचन्द्रः ॥ (समाप्तिः । यथा भागवते । १ । ६ । २९ । “आरब्धकर्म्मनिर्व्वाणो न्यपतत् पाञ्चभौतिकः ॥”) निश्चलम् । शून्यम् । विद्योपदेशनम् । इति शब्दरत्नावली ॥ नाभिदेशे जप्यप्रणवपुटित- मातृकापुटितमूलमन्त्रम् । यथा, -- “कुल्लुकां मूर्द्ध्नि संजप्य हृदि सेतुं विचिन्तयेत् । महासेतुं विशुद्धे तु षोडशारे समुद्धरेत् ॥ प्तणिपुरे तु निर्व्वाणं महाकुण्ड लिनीमधः । स्वाधिष्ठाने कामबीजं राकिणी मूर्द्ध्नि संस्थितम् । विचिन्त्य विधिवद्देवि ! मूलाधारान्तिकाच्छिवे ! ॥ विशुद्धान्तं स्मरेद्देवि ! विशतन्तुतनीयसीम् । देवीस्थानं द्विजिह्वान्तं मन्त्रमूलावृतं मुहुः ॥” निर्व्वाणं यथा, -- “अथ वक्ष्यामि निर्व्वाणं शृणु सावहितानधे ! । प्रणवं पूर्ब्बमुच्चार्य्य मातृकाद्यं समुच्चरेत् ॥ मातृकार्णां समस्ताञ्च पुनः प्रणवमुच्चरेत् । एवं पुटितमूलन्तु प्रजपेन्मणिपूरके ॥ एवं निर्व्वाणमीशानि ! यो न जानाति पामरः । कल्पकोटिसहस्रेषु तस्य सिद्धिर्न जायते ॥” इत्यागमतत्त्वविलासः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ७५ । “त्रिसामा सामगः साम निर्व्वाणं भेषजं भिषक् ॥”)
निर्व्वाणः, त्रि, (निर् + वा + क्तः । “निर्व्वाणो- ऽवाते ।” ८ । २ । ५० । इति निष्ठातस्य नः ।) मुक्तः । यथा । निर्व्वाणो मुनिः । नष्टः । यथा । निर्व्वाणो वह्रिः । (यथा, कुमारे । ३ । ५२ । “निर्व्वाणभूयिष्ठमथास्य वीर्य्यं सन्धुक्षयन्तीव वपुर्गुणेन ॥”) निमग्नः । यथा । निर्व्वाणो हस्ती । इति विशेष्यनिध्ने अमरः । ३ । १ । ९६ ॥ वाण- शून्यश्च ॥
