सामग्री पर जाएँ

निर्व्वाणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निर्व्वाणम्, क्ली, (निर् + वा गमने + क्तः । तस्य नः ।) अस्तगमनम् । निर्वृतिः । गजमज्जनम् । (यथा, रघुः । १ । ७१ । “असह्यपीडं भगवन्नृणमन्त्यमवेहि मे । अरुन्तुदमिवालानमनिर्व्वाणस्य दन्तिनः ॥”) सङ्गमः । अपवर्गः । इति मेदिनी । णे, ५८ ॥ (यथा, भागवते । ३ । २८ । ३५ । “मुक्ताश्रयं यर्हि निर्व्विषयं विरक्तं निर्व्वाणमृच्छति मनः सहसा यथार्च्चिः ॥”) विश्रान्तिः । इति हेमचन्द्रः ॥ (समाप्तिः । यथा भागवते । १ । ६ । २९ । “आरब्धकर्म्मनिर्व्वाणो न्यपतत् पाञ्चभौतिकः ॥”) निश्चलम् । शून्यम् । विद्योपदेशनम् । इति शब्दरत्नावली ॥ नाभिदेशे जप्यप्रणवपुटित- मातृकापुटितमूलमन्त्रम् । यथा, -- “कुल्लुकां मूर्द्ध्नि संजप्य हृदि सेतुं विचिन्तयेत् । महासेतुं विशुद्धे तु षोडशारे समुद्धरेत् ॥ प्तणिपुरे तु निर्व्वाणं महाकुण्ड लिनीमधः । स्वाधिष्ठाने कामबीजं राकिणी मूर्द्ध्नि संस्थितम् । विचिन्त्य विधिवद्देवि ! मूलाधारान्तिकाच्छिवे ! ॥ विशुद्धान्तं स्मरेद्देवि ! विशतन्तुतनीयसीम् । देवीस्थानं द्विजिह्वान्तं मन्त्रमूलावृतं मुहुः ॥” निर्व्वाणं यथा, -- “अथ वक्ष्यामि निर्व्वाणं शृणु सावहितानधे ! । प्रणवं पूर्ब्बमुच्चार्य्य मातृकाद्यं समुच्चरेत् ॥ मातृकार्णां समस्ताञ्च पुनः प्रणवमुच्चरेत् । एवं पुटितमूलन्तु प्रजपेन्मणिपूरके ॥ एवं निर्व्वाणमीशानि ! यो न जानाति पामरः । कल्पकोटिसहस्रेषु तस्य सिद्धिर्न जायते ॥” इत्यागमतत्त्वविलासः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ७५ । “त्रिसामा सामगः साम निर्व्वाणं भेषजं भिषक् ॥”)

"https://sa.wiktionary.org/w/index.php?title=निर्व्वाणम्&oldid=144848" इत्यस्माद् प्रतिप्राप्तम्