निर्व्वात
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्व्वातः, त्रि, (निर्गतो वातो वायुर्यस्मात् ।) वायुरहितः । इत्यमरः । ३ । १ । ९६ । (यथा, महाभारते । २ । ३६ । २८ । “असूर्य्यमिव सूर्य्येण निर्व्वातमिव वायुना । भासितं ह्लादितञ्चैव कृष्णेनेदं सदो हि नः ॥” निर्व्वाति स्मेति । निर् + वा + गत्यर्थेति क्तः । “निर्व्वाणोऽवाते ।” ८ । २ । ५० । इति निष्ठा- तस्य न नः ।) गते वायौ, पुं ॥
