निर्व्वाद
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्व्वादः, पुं, (निर्व्वदनमिति । निर् + वद् + भावे घञ् ।) परीवादः । जनवादः । इत्यमरः । ३ । ३ । ८९ ॥ (यथा, रघुः । १४ । ३४ । “किमात्मनिर्व्वादकथामुपेक्षे जायामदोषामुत सन्त्यजामि ॥”) अवज्ञा । (निर्निश्चितं वादः कथनम् ।) निश्चित- वादः । वादाभावः । इति भरतः ॥
