निर्व्वापः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्व्वापः, पुं, (निर्व्वपणमिति । निर् + वप + घञ् ।) निवापः । प्रेतभिन्नमृतपित्रुद्देश्यक- दानम् । इत्यमरटीकायां तर्कवागीशः ॥ (यथा, देवीभागवते । २ । ७ । १६ । “पुत्त्रेभ्योऽहं ददाम्यद्य निर्व्वापं विधिपूर्ब्बकम् ॥” भिक्षार्थदानम् । यथा, पञ्चतन्त्रे । ५ । २० । “एतस्मिन्नवसरे ब्राह्मणोऽपि कुतश्चित् गृहीत- निर्व्वापः परिभ्रम्य यावदागतः पश्यति तावत् पुत्त्रशोकाभिभूता ब्राह्मणी विलपति ॥” भक्ष- णम् । इति रामानुजः ॥ यथा, रामायणे । २ । ९१ । ८० । नीलवैदूर्य्यवर्णांश्च मृदून् यवससञ्चयान् । निर्व्वापार्थं पशूनां ते ददृशुस्तत्र सर्व्वशः ॥”)
