निर्व्वार्य्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्व्वार्य्यः, त्रि, (निश्चयेन व्रियते इति । निर् + वृ + “ऋहलोर्ण्यत् ।” ३ । १ । १२४ । इति ण्यत् ।) सत्वसम्पदा सम्पतन् कार्य्यकर्त्ता । इत्य- मरः । ३ । १ । १३ ॥ “भयविक्रमव्यसनाभ्युदयादौ निर्व्विकारं मनः सत्वं तत्सम्पदा सम्पतन् उद्यमं कुर्व्वन् यो निःशङ्को भूत्वा कर्म्म कुरुते स निर्व्वार्य्य उच्यते ।” इति भरतः ॥ अवारणीयश्च ॥
