निर्व्विषा
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्व्विषा, स्त्री, (निर्गतं विषं यस्याः ।) तृण- विशेषः । निर्विषी इति भाषा । तत्पर्य्यायः । अपविषा २ निर्विषी ३ विषहा ४ विषापहा ५ विषहन्त्री ६ विषाभावा ७ अविषा ८ विष- वैरिणी ९ । अस्या गुणाः । कटुत्वम् । शीत- त्वम् । कफवातास्रदोषनाशित्वम् । अनेकविष- हन्तृत्वम् । व्रणनिर्मूलकारित्वञ्च । इति राज- निर्घण्टः ॥
