निर्व्विष्ट
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्व्विष्टः, त्रि, (निर् + विश + क्तः ।) कृतनिर्व्वेशः । प्राप्तः । यथा, श्रीभागवते । “यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ॥” स्थितः । यथा, भागवते । १ । २ । ३३ । “स्वनिर्म्मितेषु निर्व्विष्टो भुड्क्ते भूतेषु तद्- गुणान् ॥” विवाहितः । कृताग्निहोत्रः । यथा । “ज्येष्ठेऽ- निर्व्विष्टे कनीयान् निर्व्विशन् परिवेत्ता भवति ।” इत्युद्वाहतत्त्वम् ॥
