सामग्री पर जाएँ

निर्व्वेद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निर्व्वेदः, पुं, (निर् + विद् + घञ् ।) स्वावमान- नम् । इति हेमचन्द्रः ॥ (यथा, देवीभागवते । ३ । १० । ३७ । “देवैर्युद्धं कृतं चोग्रं प्रह्लादस्तु पराजितः । निर्व्वेदं परमं प्राप्तो ज्ञात्वा धर्म्मं सनातनम् ॥”) स तु त्रयस्त्रिंशद्ब्यभिचारिभावानामादिमः । शान्तरसस्य स्थायिभावश्च । यथा, -- “निर्व्वेदःस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः ॥” इति काव्यप्रकाशः ॥ तस्य लक्षणं यथा, -- “तत्त्वज्ञानापदीर्य्यादेर्न्निर्व्वेदः स्वावमाननम् ॥” तदुदाहरणम् । यथा, -- “मृत्पिण्डबालुकारन्ध्रपिधानरचनार्थिना । दक्षिणावर्त्तशङ्खोऽयं हन्त चूर्णीकृतो मया ॥” इति साहित्यदर्पणम् ॥ परवैराग्यम् । यथा, -- “ततः कदाचिन्निर्व्वेदान्निराकाराश्रितेन च । लोकतन्त्रं परित्यक्तं दुःखार्त्तेन भृशं मया ॥” इति मोक्षधर्म्मः ॥ वैराग्यम् । यथा, श्रीभगवद्गीतायाम् । “तदा गन्तासि निर्व्वेदं श्रोतव्यस्य श्रुतस्य च ॥” (निर्गतो वेदो यस्मादिति ।) वेदरहिते, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=निर्व्वेद&oldid=144888" इत्यस्माद् प्रतिप्राप्तम्