निवातकवचः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निवातकवचः, पुं, दैत्यविशेषः । स तु हिरण्य- कसिपोः पौत्त्रः संह्रादपुत्त्रः । इत्यग्निपुराणम् ॥ (निवातं शस्त्राभेद्यं कवचं येषामिति । दानव- विशेषे, पुंलिङ्गो बहुवचनान्तः । ते तु इन्द्रादि- ष्टेनार्ज्जुनेन निहताः । यथा, महाभारते । ३ । १६८ । ७० -- ७२ । “ततो मामब्रवीद्राजन् ! प्रहस्य बलवृत्रहा । नाविषह्यन्तवास्तीति त्रिषु लोकेषु किञ्चन ॥ निवातकवचा नाम दानवा देवशत्रवः । समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसत्युत ॥ तिस्रः कोट्यः समाख्याता स्तुल्यरूपबलप्रभाः । तांस्तत्रजहि कौन्तेय ! गुर्व्वर्थस्ते भविष्यति ॥” एतद्बिवरणविस्तृतिस्तु तत्रैव विशेषतो द्रष्टव्या ॥)
