सामग्री पर जाएँ

निवापः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निवापः, पुं, (नितरामुप्यते इति । नि + वप + घञ् ।) मृतोद्देश्यकदानम् । तत्पर्य्यायः । पितृदानम् २ । इत्यमरः । २ । ७ । ३१ ॥ पितृतर्पणम् ३ । इति हेम- चन्द्रः । ३ । ४० ॥ निवपनम् ४ पितृदानकम् ५ । इति शब्दरत्नावली ॥ (यथा, रघुवंशे । ८ । ८६ । “अपशोकमनाः कुटुम्बिनीं अनुगृह्णीष्व निवापदत्तिभिः ॥”) दानमात्रम् । यथा । “येभ्यो निवापाञ्जलयः पितॄणाम् ।” इति भरतः ॥ (न्युप्यते वीज- मस्मिनिति । क्षेत्रम् । इति नीलकण्ठः ॥ यथा, महाभारते । ३ । ३०९ । ६ । “अवनिं प्रमदा गाश्च निवापं बहुवार्षिकम् । तत्ते विप्र ! प्रदास्यामि न तु वर्म्म सकुण्डलम् ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निवापः [nivāpḥ], 1 Seed, grain, seed-corn.

An offering to the manes of deceased parents or other relatives, a libation of water &c. at the Śrāddha ceremony; एको निवापसलिलं पिबसीत्ययुक्तम् Māl.9.4; निवापदत्तिभिः R.8.86; निवापाञ्जलयः पितॄणाम् 5.8;15.91; Mu.4.5.

A gift or offering in general. -Comp. -अञ्जलिः two handfuls of water as a libation. -अन्नम् sacrificial food. -उदकम् a libation of water; अत्यल्पमिदमस्माकं निवापोदकभोजनम् Mk. 1.17. -माल्यम् funeral wreath.

"https://sa.wiktionary.org/w/index.php?title=निवापः&oldid=370635" इत्यस्माद् प्रतिप्राप्तम्