निविष्टम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निविष्टम्, त्रि, (नि + विश + क्तः ।) निवेशयुक्तम् । (यथा, कुमारसम्भवे । ५ । ३१ । “भवन्ति साम्येऽपि निविष्टचेतसां वपुर्व्विशेषेष्वतिगौरवाः क्रियाः ॥”) आविष्टम् । प्रविष्टम् । यथा, -- “उडुगणपरिवारो नायकोऽप्योषधीना- ममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विकलमूर्त्तिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥” इत्युद्भटः ॥ (आबद्धम् । यथा, देवीभागवते । १ । १५ । ४५ । “बद्धोऽहमिति मे बुद्धिर्नापसर्पति चित्ततः । संसारवासनाजाले निविष्टा वृद्धगामिनी ॥” स्थितम् । यथा, रामायणे । १ । ५ । ५ । “कोशलो नाम मुदितः स्फीतो जनपदो महान् । निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥”)
