निवृत्तसन्तापन
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निवृत्तसन्तापन¦ न॰ निवृत्तं सन्तापनं यस्य। सन्तापविहीने। तस्मै हितम् छ। निवृत्तसन्तापनीय रसायनभेदे यथोक्तंसुश्रुते
“यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः। तथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः। अथ सप्तपुरुषा रसायनं नोपयुञ्जीरन् तद्यथा अनात्मवानलसोदरिद्रः प्रमादी व्यसनी पापकृद्भेषजापमानी चेति। सप्तभिरेव कारणैर्न सम्पद्यते। अज्ञानादनारम्भादस्थि-रचित्तत्वाद्दारिद्र्यादनायत्तत्वादधर्मादौषघालाभाच्चेति” औषधशब्दे दृश्यम्।
