निवेशः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निवेशः, पुं, (नि + विश् + घञ् ।) विन्यासः । (निविशत्यस्मिन्निति । अधिकरणे घञ् ।) शिविरम् । (यथा, महाभारते । ५ । ८ । २ । “तस्य सेनानिवेशोऽभूदध्यर्द्धमिव योजनम् ॥”) उद्वाहः । इति मेदिनी । शे, २१ ॥ (यथा, महाभारते । १ । १४ । १ । “ततो निवेशाय तदा स विप्रः संशितव्रतः । महीञ्चचार दारार्थी न च दारानविन्दत ॥”) निवेशनम् । इति शब्दरत्नावली ॥ (यथा, देवीभागवते । ३ । १९ । ४४ । “निवेशार्थं गृहं दत्तमन्नपानादिकं तथा । सेवकं समनुज्ञाप्य परिचर्य्यार्थमेव च ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निवेशः [nivēśḥ], 1 Entering, entrance.
Encamping, halting.
(a) A halting place, camp, encampment; सेनानिवेशं तुमुलं चकार R.5.49;7.2; Śi.17.4; Ki.7.27.
A house, an abode, a dwelling; निवेशपरिवेशनम् Mb.14. 45.1; भृशं ददर्श...... स निवेशवीरुधः Ki.4.19.
Expanse, contour (of the breast); नवातपालोहितमाहितं मुहुर्महानिवेशौ परितः पयोधरौ Ki.4.8.
Depositing, delivering,
Marrying, marriage, settling in life; ततो निवेशाय तदा स विप्रः संशितव्रतः । महीं चचार दारार्थी न च दारानविन्दत ॥ Mb.1.14.1.
Impression, copy.
Military array.
Ornament, decoration.
Founding (a town), निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा Rām.1.32.5.
Settling in a place; वास्तुकर्मनिवेशं च भरतागमनं तथा Rām.1.3.16.
