निशाकरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निशाकरः, पुं, (निशां करोतीति । निशा + कृ + “दिवाविभानिशेति ।” ३ । २ । २१ । इति टः ।) चन्द्रः । इत्यमरटीका ॥ (यथा, पञ्च- तन्त्रे । २ । २० । “रविनिशाकरयोर्ग्रहपीडनं गजभुजङ्गविहङ्गमबन्धनम् । मतिमताञ्च निरीक्ष्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥”) कुक्कुटः । इति शब्दरत्नावली ॥ (निशाकरश्चन्द्रः शिरोदेशेऽस्त्यस्येति । अच् । महादेवः । यथा, महाभारते । १३ । १७ । ७७ । “इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥”)
