सामग्री पर जाएँ

निशाचरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

निशाचरः, पुं, (निशायां रात्रौ चरतीति । निशा + चर + “चरेष्टः ।” ३ । २ । १६ । इति टः ।) राक्षसः । (यथा, रघुः । १० । ४५ । “अचिरात् यज्वभिर्भागं कल्पितं विधिवत् पुनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः ॥”) शृगालः । पेचकः । सर्पः । इति मेदिनी । रे, २७२ ॥ चक्रवाकः । इति शब्दरत्नावली ॥ भूतः । इति धरणिः ॥ चोरकः । इति राज- निर्घण्टः ॥ (अयन्तु ग्रन्थिपर्णस्य भेदः । भटे उर इति नेपालदेशे भवति । “निशाचरो धनहरः कितवो गणहासकः । रोचको मधुरस्तिक्तः कटुपाके कटुर्लघुः ॥ तीक्ष्णो हृद्यो हिमो हन्ति कुष्ठकण्डूकफा- निलान् । रक्षाश्रीस्वेदमेदोऽस्रज्वरगन्धविषव्रणान् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ महादेवः । यथा, महाभारते । १३ । १७ । ६७ । “वसुवेगो महावेगो मनोवेगो निशाचरः ॥”) रात्रिचरमात्रे, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=निशाचरः&oldid=144981" इत्यस्माद् प्रतिप्राप्तम्